श्रवणम्

7.62.6
नू मि॒त्रो वरु᳚णो अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि᳚वो दधन्तु ।
सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । मि॒त्रः । वरु᳚णः । अ॒र्य॒मा । नः॒ । त्मने᳚ । तो॒काय᳚ । वरि᳚वः । द॒ध॒न्तु॒ ।
सु॒॑गा । नः॒ । विश्वा᳚ । सु॒॑पथा᳚नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रोवरुणोर्यमाचैते त्रयोदेवा नु अद्य नोस्माकं त्मने आत्मने आत्महिताय तोकायपुत्राय च वरिवोधनं दधन्तु प्रयच्छन्तु नोस्माकं विश्वा सर्वाणि गन्तव्यानि सुगा सगमनानि सुपथानि च सन्तु भवन्तु शिष्टं गतम् ॥ ६ ॥

उद्वेतीति षळृचमष्टमंसूक्तम् वसिष्ठस्यार्षं त्रैष्टुभम् आद्याश्चतस्रः पञ्चम्याःपूर्वार्धश्च सूर्यदेवत्याः अवशिष्टास्त्रयोर्धर्चोमित्रावरुण- देवत्याः तथाचानुक्रान्तम्-उद्वेतीतिचार्धपञ्चमाइति । विनियोगोलैङ्गिकः ।