सप्तमं मण्डलम् - सूक्तम् 58

6 ऋचः

ऋषिः: वसिष्ठः देवता: मरुतः छन्दः: त्रिष्टुप्

सूक्तम् 7.58 - सम्पूर्णम्

1 / 6
ऋक्: 7.58.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.58.1 समानपद
प्र सा᳚क॒मुक्षे᳚ अर्चता ग॒णाय॒ यो दैव्य᳚स्य॒ धाम्न॒स्तुवि᳚ष्मान् ।
उ॒त क्षो᳚दन्ति॒ रोद᳚सी महि॒त्वा नक्ष᳚न्ते॒ नाकं॒ निरृ᳚तेरवं॒शात् ॥
▶ पदपाठः (Word-by-word)
प्र । सा॒क॒म्॑उक्षे᳚ । अ॒र्च॒त॒ । ग॒णाय᳚ । यः । दैव्य᳚स्य । धाम्नः᳚ । तुवि᳚ष्मान् ।
उ॒त । क्षो॒द॒न्ति॒ । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा । नक्ष᳚न्ते । नाक᳚म् । निः॑ऋ᳚तेः । अ॒वं॒शात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारोयूयं साकमुक्षे संततं वर्षित्रे गणाय मरुत्समूहाय प्रार्चत स्तोत्रं प्रोच्चारयत योमरुद्गणः दैव्यस्य देवसंबन्धिनः धाम्नः स्वर्गाख्य- स्य स्थानस्य तुविष्मान् वृद्धिमान् भवति सर्वेभ्योदेवेभ्यः प्रवृद्धइत्यर्थः तस्मै गणायेति पूर्वेणसंबन्धः । उतापिच मरुतः महित्वा स्वकी- येन महत्वेन सहिताः रोदसी द्यावापृथिव्यौ क्षोदन्ति भंजंति तथा निरृतेर्भूमेः अवंशादन्तरिक्षाच्च नाकं स्वर्गं नक्षन्ते व्याप्नुवन्ति ॥ १ ॥

7.58.2
ज॒नूश्चि᳚द्वो मरुतस्त्वे॒ष्ये᳚ण॒ भीमा᳚स॒स्तुवि᳚मन्य॒वो॑या᳚सः ।
प्र ये महो᳚भि॒रोज᳚सो॒त सन्ति॒ विश्वो᳚ वो॒ याम᳚न्भयते स्व॒र्दृक् ॥
▶ पदपाठः (Word-by-word)
ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये᳚ण । भीमा᳚सः । तुवि᳚॑मन्यवः । अया᳚सः ।
प्र । ये । महः᳚॑भिः । ओज᳚सा । उ॒त । सन्ति᳚ । विश्वः᳚ । वः॒ । याम᳚न् । भ॒य॒ते॒ । स्वः॒॑दृक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भीमासोभीमाः तुविमन्यवः प्रवृद्धमतयः अयासोगन्तारः इति त्रीणिसंबोधनानि एवंभूता हे मरुतोवोयुष्माकं जनूर्जन्म त्वेष्येण दीप्तेन रुद्रेण बभूवेति शेषः । उतापिच ये मरुतः महोभिस्तेजोभिः ओजसा बलेनच प्रसन्ति प्रभवन्ति तेषां वोयुष्माकं यामन् यामनि गमने विश्वः स्वर्दृक् सूर्यस्य द्रष्टा सर्वोजीवसमूहः यद्वा स्वः अन्तरिक्षं तत्पश्यतीति वृक्षः स्वर्दृक् सर्वदाउत्तिष्ठन्नित्यर्थः भयते बिभेति ॥ २ ॥

7.58.3
बृ॒हद्वयो᳚ म॒घव᳚द्भ्यो दधात॒ जुजो᳚ष॒न्निन्म॒रुतः᳚ सुष्टु॒तिं नः᳚ ।
ग॒तो नाध्वा॒ वि ति᳚राति ज॒न्तुं प्र णः᳚ स्पा॒र्हाभि᳚रू॒तिभि᳚स्तिरेत ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । वयः᳚ । म॒घव᳚त्॑भ्यः । द॒धा॒त॒ । जुजो᳚षन् । इत् । म॒रुतः᳚ । सु॒॑स्तु॒तिम् । नः॒ ।
ग॒तः । न । अध्वा᳚ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः᳚ । ऊ॒ति॑भिः᳚ । ति॒रे॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोयूयं मघवभ्द्योहविर्लक्षणान्नवभ्द्योस्मभ्यं बृहन्महत् वयोन्नं दधात प्रयच्छत नोस्मदीयां सुष्टुतिं शोभनं स्तोत्रं जुजोषन्नित् सेव- न्तामेव गतोमरुद्भिः प्राप्तः अध्वा मार्गः जंतुं प्राणिनं न वितिराति नाहन्ति उदकेनाप्याययत्येव यद्वा वितिरातिर्वर्धनार्थः नेतिचार्थे मरुद्भिः जातोमार्गश्च जंतुं वर्धयति तथानोस्मान् स्पार्हाभिः स्पृहणीयाभिः ऊतिभिः रक्षाभिः प्रतिरेत प्रवर्धयते ॥ ३ ॥

7.58.4
यु॒ष्मोतो॒ विप्रो᳚ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु᳚रिः सह॒स्री ।
यु॒ष्मोतः᳚ स॒म्राळु॒त ह᳚न्ति वृ॒त्रं प्र तद्वो᳚ अस्तु धूतयो दे॒ष्णम् ॥
▶ पदपाठः (Word-by-word)
यु॒ष्मा॑ऊ᳚तः । विप्रः᳚ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्मा॑ऊ᳚तः । अर्वा᳚ । सहु᳚रिः । स॒ह॒स्री ।
यु॒ष्मा॑ऊ᳚तः । स॒म्॑राट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः युष्मोतः युष्माभीरक्षितः विप्रः स्तोता शतस्वी शतसंख्योपेतधनवान् भवतियुष्मोतः युष्माभीः रक्षितः अर्वा अभिगन्ता सहुरिः शत्रूणामभिभविता स्तोता सहस्री सहस्रधनवान् भवति । युष्मोतः युष्माभीरक्षितः सम्राट् साम्राज्ययुक्तोभवति । उतापिच वृत्रं शत्रुं हन्ति युष्मद्रक्षकोहिनस्ति । हे धूतयः कंपयितारोमरुतः वोयुष्माभिर्दत्तं तत्प्रसिद्धं देष्णं धनं प्रास्तु प्रभूतं भवतु ॥ ४ ॥

7.58.5 समानपद
ता{4} आ रु॒द्रस्य᳚ मी॒ळ्हुषो᳚ विवासे कु॒विन्नंस᳚न्ते म॒रुत॒ः पुन᳚र्नः ।
यत्स॒स्वर्ता᳚ जिहीळि॒रे यदा॒विरव॒ तदेन᳚ ईमहे तु॒राणा᳚म् ॥
▶ पदपाठः (Word-by-word)
तान् । आ । रु॒द्रस्य᳚ । मी॒ळ्हुषः᳚ । वि॒वा॒से॒ । कु॒वित् । नंस᳚न्ते । म॒रुतः᳚ । पुनः᳚ । नः॒ ।
यत् । स॒स्वर्ता᳚ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव᳚ । तत् । एनः᳚ । ई॒म॒हे॒ । तु॒राणा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुषः कामानांवर्षितुः रुद्रस्येश्वरस्य पुत्रान् तान्मरुतः आविवासे अहं होता परिचरामि ते मरुतः नःअस्माभ्यं कुवित् बहुकृत्वः पुनः भूयः नंसन्ते नमन्तां अभिमुखीभवन्तु । कुवित् शब्देनैव पुनः शब्दार्थस्य लब्धत्वात् पुनः शब्दग्रहणं क्रिमर्थं आदरार्थम् । सस्वर्ताअन्तर्नि- हितेन अप्रकाशेन यत् येन एनसा जिहीळिरे मरुतः क्रुध्येयुः आविः प्रकाशेन यत् येन एनसाच जिहीळिरे तुराणां क्षिप्राणां मरुतां संबन्धि तदुभयमेनोपराधं अवईमहे स्तोत्रेण वयमपनयामः ॥ ५ ॥

7.58.6
प्र सा वा᳚चि सुष्टु॒तिर्म॒घोना᳚मि॒दं सू॒क्तं म॒रुतो᳚ जुषन्त ।
आ॒राच्चि॒द्द्वेषो᳚ वृषणो युयोत यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
प्र । सा । वा॒चि॒ । सु॒॑स्तु॒तिः । म॒घोना᳚म् । इ॒दम् । सु॒॑उ॒क्तम् । म॒रुतः᳚ । जु॒ष॒न्त॒ ।
आ॒रात् । चि॒त् । द्वेषः᳚ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघोनां धनवतां मरुतां संबंधिनी सुष्टुतिः या शोभना स्तुतिः अस्मिन् सूक्ते कृता सा स्तुतिः अस्माभिः प्रवाचि प्रोक्तासीत् । मरुतः इदमीदृग्भूतं सूक्तं जुषन्त सेवन्ताम् । हे वृषणः कामानां वर्षितारोयूयं द्वेषोद्वेषांसि शत्रून् आराच्चित् दूरादेव युयोत अस्मत्तः पृथक्कुरुत यूयं नोस्मान् स्वस्तिभिः सर्वदा रक्षत ॥ ६ ॥

यंत्रायध्वइति द्वादशर्चं चतुर्थं सूक्तं अत्रेयमनुक्रमणिका-यंत्रायध्वेद्वादश त्रिप्रगाथादि नवम्याद्यास्तिस्रोगायत्र्योंत्यानुष्टुब्रौद्री मृत्युविमोचनीति । आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यावनुक्तत्वान्त्रिष्टुभौ नवमीदशम्येका- दश्योगायत्र्यः द्वादश्यनुष्टुप् साचरुद्रदेवताका शिष्टामारुत्यः । सूक्तविनियोगोलैंगिकः ।