ज॒नूश्चि᳚द्वो मरुतस्त्वे॒ष्ये᳚ण॒ भीमा᳚स॒स्तुवि᳚मन्य॒वो॑या᳚सः ।
प्र ये महो᳚भि॒रोज᳚सो॒त सन्ति॒ विश्वो᳚ वो॒ याम᳚न्भयते स्व॒र्दृक् ॥
प्र ये महो᳚भि॒रोज᳚सो॒त सन्ति॒ विश्वो᳚ वो॒ याम᳚न्भयते स्व॒र्दृक् ॥
पदपाठः (Word-by-word)
ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये᳚ण । भीमा᳚सः । तुवि᳚॑मन्यवः । अया᳚सः ।
प्र । ये । महः᳚॑भिः । ओज᳚सा । उ॒त । सन्ति᳚ । विश्वः᳚ । वः॒ । याम᳚न् । भ॒य॒ते॒ । स्वः॒॑दृक् ॥
प्र । ये । महः᳚॑भिः । ओज᳚सा । उ॒त । सन्ति᳚ । विश्वः᳚ । वः॒ । याम᳚न् । भ॒य॒ते॒ । स्वः॒॑दृक् ॥
सायणभाष्यम् (Sayana Commentary)
हे भीमासोभीमाः तुविमन्यवः प्रवृद्धमतयः अयासोगन्तारः इति त्रीणिसंबोधनानि एवंभूता हे मरुतोवोयुष्माकं जनूर्जन्म त्वेष्येण दीप्तेन रुद्रेण बभूवेति शेषः । उतापिच ये मरुतः महोभिस्तेजोभिः ओजसा बलेनच प्रसन्ति प्रभवन्ति तेषां वोयुष्माकं यामन् यामनि गमने विश्वः स्वर्दृक् सूर्यस्य द्रष्टा सर्वोजीवसमूहः यद्वा स्वः अन्तरिक्षं तत्पश्यतीति वृक्षः स्वर्दृक् सर्वदाउत्तिष्ठन्नित्यर्थः भयते बिभेति ॥ २ ॥