श्रवणम्

7.58.3
बृ॒हद्वयो᳚ म॒घव᳚द्भ्यो दधात॒ जुजो᳚ष॒न्निन्म॒रुतः᳚ सुष्टु॒तिं नः᳚ ।
ग॒तो नाध्वा॒ वि ति᳚राति ज॒न्तुं प्र णः᳚ स्पा॒र्हाभि᳚रू॒तिभि᳚स्तिरेत ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । वयः᳚ । म॒घव᳚त्॑भ्यः । द॒धा॒त॒ । जुजो᳚षन् । इत् । म॒रुतः᳚ । सु॒॑स्तु॒तिम् । नः॒ ।
ग॒तः । न । अध्वा᳚ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः᳚ । ऊ॒ति॑भिः᳚ । ति॒रे॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोयूयं मघवभ्द्योहविर्लक्षणान्नवभ्द्योस्मभ्यं बृहन्महत् वयोन्नं दधात प्रयच्छत नोस्मदीयां सुष्टुतिं शोभनं स्तोत्रं जुजोषन्नित् सेव- न्तामेव गतोमरुद्भिः प्राप्तः अध्वा मार्गः जंतुं प्राणिनं न वितिराति नाहन्ति उदकेनाप्याययत्येव यद्वा वितिरातिर्वर्धनार्थः नेतिचार्थे मरुद्भिः जातोमार्गश्च जंतुं वर्धयति तथानोस्मान् स्पार्हाभिः स्पृहणीयाभिः ऊतिभिः रक्षाभिः प्रतिरेत प्रवर्धयते ॥ ३ ॥