श्रवणम्

7.58.5 समानपद
ता{4} आ रु॒द्रस्य᳚ मी॒ळ्हुषो᳚ विवासे कु॒विन्नंस᳚न्ते म॒रुत॒ः पुन᳚र्नः ।
यत्स॒स्वर्ता᳚ जिहीळि॒रे यदा॒विरव॒ तदेन᳚ ईमहे तु॒राणा᳚म् ॥
▶ पदपाठः (Word-by-word)
तान् । आ । रु॒द्रस्य᳚ । मी॒ळ्हुषः᳚ । वि॒वा॒से॒ । कु॒वित् । नंस᳚न्ते । म॒रुतः᳚ । पुनः᳚ । नः॒ ।
यत् । स॒स्वर्ता᳚ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव᳚ । तत् । एनः᳚ । ई॒म॒हे॒ । तु॒राणा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुषः कामानांवर्षितुः रुद्रस्येश्वरस्य पुत्रान् तान्मरुतः आविवासे अहं होता परिचरामि ते मरुतः नःअस्माभ्यं कुवित् बहुकृत्वः पुनः भूयः नंसन्ते नमन्तां अभिमुखीभवन्तु । कुवित् शब्देनैव पुनः शब्दार्थस्य लब्धत्वात् पुनः शब्दग्रहणं क्रिमर्थं आदरार्थम् । सस्वर्ताअन्तर्नि- हितेन अप्रकाशेन यत् येन एनसा जिहीळिरे मरुतः क्रुध्येयुः आविः प्रकाशेन यत् येन एनसाच जिहीळिरे तुराणां क्षिप्राणां मरुतां संबन्धि तदुभयमेनोपराधं अवईमहे स्तोत्रेण वयमपनयामः ॥ ५ ॥