प्र सा वा᳚चि सुष्टु॒तिर्म॒घोना᳚मि॒दं सू॒क्तं म॒रुतो᳚ जुषन्त ।
आ॒राच्चि॒द्द्वेषो᳚ वृषणो युयोत यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
आ॒राच्चि॒द्द्वेषो᳚ वृषणो युयोत यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
प्र । सा । वा॒चि॒ । सु॒॑स्तु॒तिः । म॒घोना᳚म् । इ॒दम् । सु॒॑उ॒क्तम् । म॒रुतः᳚ । जु॒ष॒न्त॒ ।
आ॒रात् । चि॒त् । द्वेषः᳚ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
आ॒रात् । चि॒त् । द्वेषः᳚ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
मघोनां धनवतां मरुतां संबंधिनी सुष्टुतिः या शोभना स्तुतिः अस्मिन् सूक्ते कृता सा स्तुतिः अस्माभिः प्रवाचि प्रोक्तासीत् । मरुतः इदमीदृग्भूतं सूक्तं जुषन्त सेवन्ताम् । हे वृषणः कामानां वर्षितारोयूयं द्वेषोद्वेषांसि शत्रून् आराच्चित् दूरादेव युयोत अस्मत्तः पृथक्कुरुत यूयं नोस्मान् स्वस्तिभिः सर्वदा रक्षत ॥ ६ ॥
यंत्रायध्वइति द्वादशर्चं चतुर्थं सूक्तं अत्रेयमनुक्रमणिका-यंत्रायध्वेद्वादश त्रिप्रगाथादि नवम्याद्यास्तिस्रोगायत्र्योंत्यानुष्टुब्रौद्री मृत्युविमोचनीति । आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यावनुक्तत्वान्त्रिष्टुभौ नवमीदशम्येका- दश्योगायत्र्यः द्वादश्यनुष्टुप् साचरुद्रदेवताका शिष्टामारुत्यः । सूक्तविनियोगोलैंगिकः ।