भरे᳚ ह॒विर्न ब॒र्हिषि᳚ प्रीणा॒नो वै᳚श्वान॒राय॒ यत᳚ये मती॒नाम् ॥
पदपाठः (Word-by-word)
भरे᳚ । ह॒विः । न । ब॒र्हिषि᳚ । प्री॒णा॒नः । वै॒श्वा॒न॒राय᳚ । यत᳚ये । म॒ती॒नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सखायः विश्वशुचे विश्वं यो दीपयति तस्मै धियंधे धियां कर्मणां यो धाता तस्मै असुरघ्ने असुराणां यो हन्ता तस्मै अग्नये मन्म मननीयं स्तोत्रं धीतिं कर्मच प्रभरध्वम् । मतीनाम भिमतानां कामानां यतये दात्रे वैश्वानराय विश्वनरहिताय अग्निविशेषाय बर्हिषि यज्ञे हविर्न हविरिव स्तुतिं प्रीणानः प्रीयमाणोहं भरे भरामि । यद्वा हविः प्रीणानः प्रीणयन्नहं बर्हिषि हविर्भरे संभरामि नेति संप्रत्यर्थे ॥ १ ॥