श्रवणम्

7.13.2
त्वम᳚ग्ने शो॒चिषा॒ शोशु᳚चान॒ आ रोद᳚सी अपृणा॒ जाय᳚मानः ।
त्वं दे॒वा{4} अ॒भिश᳚स्तेरमुञ्चो॒ वैश्वा᳚नर जातवेदो महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । शो॒चिषा᳚ । शोशु᳚चानः । आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒णाः॒ । जाय᳚मानः ।
त्वम् । दे॒वान् । अ॒भि॑श᳚स्तेः । अ॒मु॒ञ्चः॒ । वैश्वा᳚नर । जा॒त॒॑वे॒दः॒ । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं शोचिषा दीप्त्या शोशुचानो दीप्यमानो जायमानो जायमानएव रोदसी द्यावापृथिव्यौ आ अपृणाः आपूरयः । अपि च जात- वेदो जातप्रज्ञ जातधनवा वैश्वानर विश्वनरहित हे अग्ने त्वं देवान् महित्वा महत्त्वेन अभिशस्तेः अभिशंसकात् शत्रोरमुंचः अमोचयः ॥ २ ॥