श्रवणम्

7.13.1 समानपद
प्राग्नये᳚ विश्व॒शुचे᳚ धियं॒धे᳚॑सुर॒घ्ने मन्म᳚ धी॒तिं भ᳚रध्वम् ।
भरे᳚ ह॒विर्न ब॒र्हिषि᳚ प्रीणा॒नो वै᳚श्वान॒राय॒ यत᳚ये मती॒नाम् ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒ग्नये᳚ । वि॒श्व॒॑शुचे᳚ । धि॒य॒म्॑धे᳚ । अ॒सु॒र॒॑घ्ने । मन्म᳚ । धी॒तिम् । भ॒र॒ध्व॒म् ।
भरे᳚ । ह॒विः । न । ब॒र्हिषि᳚ । प्री॒णा॒नः । वै॒श्वा॒न॒राय᳚ । यत᳚ये । म॒ती॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः विश्वशुचे विश्वं यो दीपयति तस्मै धियंधे धियां कर्मणां यो धाता तस्मै असुरघ्ने असुराणां यो हन्ता तस्मै अग्नये मन्म मननीयं स्तोत्रं धीतिं कर्मच प्रभरध्वम् । मतीनाम भिमतानां कामानां यतये दात्रे वैश्वानराय विश्वनरहिताय अग्निविशेषाय बर्हिषि यज्ञे हविर्न हविरिव स्तुतिं प्रीणानः प्रीयमाणोहं भरे भरामि । यद्वा हविः प्रीणानः प्रीणयन्नहं बर्हिषि हविर्भरे संभरामि नेति संप्रत्यर्थे ॥ १ ॥