सप्तमं मण्डलम् - सूक्तम् 56

25 ऋचः

ऋषिः: वसिष्ठः देवता: मरुतः छन्दः: द्विपदा विराट्

सूक्तम् 7.56 - सम्पूर्णम्

1 / 25
ऋक्: 7.56.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (25)
7.56.1
क ईं॒ व्य᳚क्ता॒ नर॒ः सनी᳚ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
के । ई॒म् । वि॑अ᳚क्ताः । नरः᳚ । स॑नी᳚ळाः । रु॒द्रस्य᳚ । मर्याः᳚ । अध᳚ । सु॒॑अश्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्यक्ताः कान्तियुक्ताः नरोनेतारः सनीळाः समानौकसः रुद्रस्य महादेवस्य पुत्राः मर्याः मर्येभ्येनृभ्योहिताः अध अपिच स्वश्वाः शॊभन- वाहाः ईं इमे एवंभूताः के भवन्तीति रूपातिशयादृषिराश्चर्येणाह ॥ १ ॥

7.56.2
नकि॒र्ह्ये᳚षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि᳚द्रे मि॒थो ज॒नित्र᳚म् ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । हि । ए॒षा॒म् । ज॒नूंषि᳚ । वेद᳚ । ते । अ॒ङ्ग । वि॒द्रे॒ । मि॒थः । ज॒नित्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां जनूंषि जन्मानि नकिर्हि वेद कश्चिदपि नखलु जानाति ते तादृशाः मरुतः मिथः परस्परं जनित्रं रुद्रपृश्निभ्यां सकाशात् प्रादुर्भूतं स्वकीयं जन्म अंग विद्रे स्वयमेवविदन्ति ॥ २ ॥

7.56.3
अ॒भि स्व॒पूभि᳚र्मि॒थो व᳚पन्त॒ वात᳚स्वनसः श्ये॒ना अ᳚स्पृध्रन् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । स्व॒॑पूभिः᳚ । मि॒थः । व॒प॒न्त॒ । वात᳚॑स्वनसः । श्ये॒नाः । अ॒स्पृ॒ध्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतः स्वपूभिः स्वकीयैः पवनैः संचरणैः स्वयमेव संचरन्तः मिथः परस्परं अभिवपत संगच्छन्ते अपिच वातस्वनसः वायुवत्स्वनन्तः शब्दायमानाः श्येनाः श्यैङ्गतावितिधातोरूपं गमनशीलाः यद्वा श्येनाइति लुप्तोपममेतत् श्येनाः पक्षिणः तद्वद्गच्छन्तः अस्पृध्रन् परस्परं रूपसौंदर्यादिभिः स्पर्धन्ते ॥ ३ ॥

7.56.4
ए॒तानि॒ धीरो᳚ नि॒ण्या चि᳚केत॒ पृश्नि॒र्यदूधो᳚ म॒ही ज॒भार᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒तानि᳚ । धीरः᳚ । नि॒ण्या । चि॒के॒त॒ । पृश्निः᳚ । यत् । ऊधः᳚ । म॒ही । ज॒भार᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीरोधीमान् शास्त्रज्ञोजनः निण्या निण्यानि श्वेतवर्णानि एतानि मरुदात्मकानि भूतानि चिकेत जानीयात् किंतु न सर्वे जना जानन्ती- त्यर्थः मही महती पृश्निर्मरुतां जननी यत् यानि मरुदात्मकानि भूतानि ऊधः ऊधन्यन्तरिक्षे स्वकीये जठरे वा जभार बभार एतानि चिकेतेति पूर्वेण संबंधः ॥ ४ ॥

7.56.5
सा विट् सु॒वीरा᳚ म॒रुद्भि᳚रस्तु स॒नात्सह᳚न्ती॒ पुष्य᳚न्ती नृ॒म्णम् ॥
▶ पदपाठः (Word-by-word)
सा । विट् । सु॒॑वीरा᳚ । म॒रुत्॑भिः᳚ । अ॒स्तु॒ । स॒नात् । सह᳚न्ती । पुष्य᳚न्ती । नृ॒म्णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सा विट् सा प्रजा मरुतः परिचरति सा प्रजा मरुद्भिः हेतुभिः सनात् चिरात् सहन्ती शत्रूनभिभवन्ती नृम्णं धनं बलं वा पुष्यन्ती लभन्ती सुवीरा शोभनपुत्रयुक्तास्तु भवतु ॥ ५ ॥

7.56.6
यामं॒ येष्ठा᳚ः शु॒भा शोभि᳚ष्ठाः श्रि॒या सम्मि᳚श्ला॒ ओजो᳚भिरु॒ग्राः ॥
▶ पदपाठः (Word-by-word)
याम᳚म् । येष्ठाः᳚ । शु॒भा । शोभि᳚ष्ठाः । श्रि॒या । सम्॑मि᳚श्लाः । ओजः᳚॑भिः । उ॒ग्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतः यामं यातव्यं गंतव्यं प्रदेशं येष्ठाः यातृतमाः अतिशयेन गंतारः शुभाः अलंकारेण शोभिष्ठाः अतिशयेन शोभायुक्ताः श्रिया कांत्या संमिश्लाः संगच्छमाना ओजोभिर्बलैः उग्रा उद्गूर्णाः एवंभूताभवन्तीति शेषः ॥ ६ ॥

7.56.7
उ॒ग्रं व॒ ओजः᳚ स्थि॒रा शवां॒स्यधा᳚ म॒रुद्भि᳚र्ग॒णस्तुवि᳚ष्मान् ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रम् । वः॒ । ओजः᳚ । स्थि॒रा । शवां᳚सि । अध᳚ । म॒रुत्॑भिः᳚ । ग॒णः । तुवि᳚ष्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वोयुष्माकं ओजस्तेजः उग्रमुद्गूर्णं भवतु शवांसि युष्मदीयानि बलानि स्थिरा स्थिराणि कैश्चिदनपहर्तव्यानि भवन्तु अध अपिच मरुद्भिः गणः मरुतां संघः तुविष्मान् वृद्धिमान् भवतु ॥ ७ ॥

7.56.8
शु॒भ्रो व॒ः शुष्म॒ः क्रुध्मी॒ मनां᳚सि॒ धुनि॒र्मुनि᳚रिव॒ शर्ध᳚स्य धृ॒ष्णोः ॥
▶ पदपाठः (Word-by-word)
शु॒भ्रः । वः॒ । शुष्मः᳚ । क्रुध्मी᳚ । मनां᳚सि । धुनिः᳚ । मुनिः᳚॑इव । शर्ध᳚स्य । धृ॒ष्णोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वोयुष्माकं शुष्मोबलं शुभ्रः सर्वतः शोभमानं किंच वो मनांसि क्रुध्मी संग्रामेषु शत्रुहननार्थं क्रोधनशीलानि धृष्णोर्धर्षणशीलस्य शर्धस्य बलवतोयुष्मदीयस्य गणस्य धुनिः वृक्षादीनां कंपयितुः वेगः मुनिरिव मननान्मुनिः स्तोता सयथा बहुविधं शब्दमुत्पादयति एवं बहुविधशब्दस्योत्पादकइत्यर्थः ॥ ८ ॥

7.56.9
सने᳚म्य॒स्मद्यु॒योत᳚ दि॒द्युं मा वो᳚ दुर्म॒तिरि॒ह प्रण᳚ङ्नः ॥
▶ पदपाठः (Word-by-word)
सने᳚मि । अ॒स्मत् । यु॒योत᳚ । दि॒द्युम् । मा । वः॒ । दुः॒॑म॒तिः । इ॒ह । प्रण᳚क् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः सनेमि सनातनं दिद्युं दीप्यमानं ऋष्ट्याख्यं युष्मदीयमायुधं अस्मत् अस्मत्तः सकाशात् युयोत पृथक्वुरुत तथा वः युष्मदीया- दुर्मतिः निग्रहबुद्धिः नोस्मान् इह अस्मिन् लोके मा प्रणक् मा प्राप्नोत् ॥ ९ ॥

7.56.10
प्रि॒या वो॒ नाम᳚ हुवे तु॒राणा॒मा यत्तृ॒पन्म᳚रुतो वावशा॒नाः ॥
▶ पदपाठः (Word-by-word)
प्रि॒या । वः॒ । नाम᳚ । हु॒वे॒ । तु॒राणा᳚म् । आ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः तुराणां यजमानार्थं त्वरया आगच्छतां वः युष्माकं नाम आहुवे आह्वयामि यत् येन आह्वानेन प्रियाः स्नेहयुक्ताः वावशानाः अस्माकं आह्वानं कृतमिति शब्दायमानाश्च सन्तः तृपत् संतुष्टा भविष्यथ तत् आह्वानमिति ॥ १० ॥

7.56.11
स्वा॒यु॒धास᳚ इ॒ष्मिणः᳚ सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॒᳚ः शुम्भ᳚मानाः ॥
▶ पदपाठः (Word-by-word)
सु॒॑आ॒यु॒धासः᳚ । इ॒ष्मिणः᳚ । सु॒॑नि॒ष्काः । उ॒त । स्व॒यम् । त॒न्वः᳚ । शुम्भ᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वायुधासः स्वायुधाः शोभनास्त्राः इष्मिणोगन्तारः सुनिष्काः शोभनालंकाराः उतापिच तन्वः स्वकीयानि शरीराणि शुंभमानाः स्वय- मेव शोभयन्तोमरुतः एवंभूताभवंतीत्यर्थः ॥ ११ ॥

7.56.12
शुची᳚ वो ह॒व्या म᳚रुत॒ः शुची᳚नां॒ शुचिं᳚ हिनोम्यध्व॒रं शुचि᳚भ्यः ।
ऋ॒तेन᳚ स॒त्यमृ᳚त॒साप᳚ आय॒ञ्छुचि᳚जन्मान॒ः शुच᳚यः पाव॒काः ॥
▶ पदपाठः (Word-by-word)
शुची᳚ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची᳚नाम् । शुचि᳚म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि᳚॑भ्यः ।
ऋ॒तेन᳚ । स॒त्यम् । ऋ॒त॒॑सापः᳚ । आ॒य॒न् । शुचि᳚॑जन्मानः । शुच᳚यः । पा॒व॒काः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः शुचीनां शुद्धानां वोयुष्माकं शुची शुचीनि हव्या हव्यानि हवींषि भवन्तु शुचिभ्यः प्रकाशमानेभ्योयुष्मभ्यं शुचिं शुद्धं अध्वरं यागं हिनोमि अहं प्रेरयामि ऋतसापः ऋतमुदकं स्पृशन्तोमरुतः ऋतेन सत्येनैव सत्यमायन् गच्छंति कीदृशाः शुचिजन्मानः शोभन- जननाः शुचयोदीप्यमानाः पावकाः शोधकाः एवंभूतागच्छंतीत्यर्थः ॥ १२ ॥

7.56.13
अंसे॒ष्वा म᳚रुतः खा॒दयो᳚ वो॒ वक्ष᳚स्सु रु॒क्मा उ᳚पशिश्रिया॒णाः ।
वि वि॒द्युतो॒ न वृ॒ष्टिभी᳚ रुचा॒ना अनु᳚ स्व॒धामायु᳚धै॒र्यच्छ᳚मानाः ॥
▶ पदपाठः (Word-by-word)
अंसे᳚षु । आ । म॒रु॒तः॒ । खा॒दयः᳚ । वः॒ । वक्षः᳚॑सु । रु॒क्माः । उ॒प॒॑शि॒श्रि॒या॒णाः ।
वि । वि॒॑द्युतः᳚ । न । वृ॒ष्टि॑भिः᳚ । रु॒चा॒नाः । अनु᳚ । स्व॒धाम् । आयु᳚धैः । यच्छ᳚मानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः अंसेषु युष्मदीयेषु स्कंधप्रदेशेषु खादयोलंकारविशेषाः आमुक्ताभवन्तीतिशेषः सुरुक्माः सुष्ठु रोचमानाः हाराः वोयुष्मदीयं वक्षः उरःप्रदेशं उपशिश्रियाणाः आश्रिताभवन्ति किंच हे मरुतः वृष्टिभिः वर्षैः सार्धं विद्युतोन तडितोयथा रुचानाः रोचमानाः तादृग्भूतायूयं आयुधैर्मेघताडनैः स्वधामुदकं अनुयच्छमानाः प्रयच्छन्तोविचरथेति शेषः ॥ १३ ॥ गृहमेधीये प्रबुध्र्यावइति प्रधानस्ययाज्या सूत्रितंच-प्रबुध्र्यावईरतेमहांसीति पुष्टिमन्तौ विराजौ संयाज्येइति ।

7.56.14
प्र बु॒ध्न्या᳚ व ईरते॒ महां᳚सि॒ प्र नामा᳚नि प्रयज्यवस्तिरध्वम् ।
स॒ह॒स्रियं॒ दम्यं᳚ भा॒गमे॒तं गृ᳚हमे॒धीयं᳚ मरुतो जुषध्वम् ॥
▶ पदपाठः (Word-by-word)
प्र । बु॒ध्न्या᳚ । वः॒ । ई॒र॒ते॒ । महां᳚सि । प्र । नामा᳚नि । प्र॒॑य॒ज्य॒वः॒ । ति॒र॒ध्व॒म् ।
स॒ह॒स्रिय᳚म् । दम्य᳚म् । भा॒गम् । ए॒तम् । गृ॒ह॒॑मे॒धीय᳚म् । म॒रु॒तः॒ । जु॒ष॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्मदीयानि बुध्न्यान्यन्तरिक्षेभवानि महांसि तेजांसि प्रेरते प्रकर्षेण गच्छन्ति किंच हे प्रयज्यवः प्रकर्षेण यष्टव्यामरुतोयूयं नामानि पांसून्नमयन्तीति नामान्युदकानि प्रतिरध्वं वर्धयत । हेमरुतोयूयं सहस्रियं सहस्रसंख्याकं दम्यं दमे गृहे भवं गृहमेधीयं गृहमेधिगुणेभ्योयुष्मभ्यं देयं एतं एतादृशं भागं जुषध्वं सेवध्वं एकं भागं सहस्रियमिति कथामाह तथाचश्रूयते-यावदेकादेवताकामयते यावदेकातावदाहुतिः प्रथते नहितदस्ति यत्तावदेवस्यात् यावज्जुहोतोति ॥ १४ ॥

7.56.15
यदि᳚ स्तु॒तस्य᳚ मरुतो अधी॒थेत्था विप्र᳚स्य वा॒जिनो॒ हवी᳚मन् ।
म॒क्षू रा॒यः सु॒वीर्य᳚स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा᳚वा ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । स्तु॒तस्य᳚ । म॒रु॒तः॒ । अ॒धि॒॑इ॒थ । इ॒त्था । विप्र᳚स्य । वा॒जिनः᳚ । हवी᳚मन् ।
म॒क्षु । रा॒यः । सु॒॑वीर्य᳚स्य । दा॒त॒ । नु । चि॒त् । यम् । अ॒न्यः । आ॒॑दभ᳚त् । अरा᳚वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनोहविर्लक्षणान्नवतः विप्रस्य मेधाविनोमम संबन्धिनि हवीमन् हविष्मति हविषायुक्ते स्तोत्रे क्रियमाणे सति हे मरुतोयूयं यदि यस्मात् कारणात् स्तुतस्य स्तुतं मदीयं स्तोत्रं इत्था इत्थमनेन प्रकारेण अधीथ अवगच्छथ तस्मात् कारणात् हे मरुतो यूयं सुवीर्गस्य शोभनपुत्रोपेतस्य रायः रायं धनं द्वितीयार्थेषष्ठी मक्षु शीघ्रं दात दत्त अरावा अरातिः शत्रुभूतः अन्योजनः यं रायं नूचिदादभत् नैवाभिहन्यात् तद्धनमस्मभ्यं दत्तेति संबन्धः ॥ १५ ॥ मरुद्भ्यः क्रीळिभ्यः सप्तकपालमित्यत्यासइतियाज्या सूत्रितंच-अत्यासोनयेमरुतः स्वं चो जुष्टोदमूनाइति ।

7.56.16 समानपद
अत्या᳚सो॒ न ये म॒रुत॒ः स्वञ्चो᳚ यक्ष॒दृशो॒ न शु॒भय᳚न्त॒ मर्या᳚ः ।
ते ह᳚र्म्ये॒ष्ठाः शिश᳚वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र᳚क्री॒ळिनः᳚ पयो॒धाः ॥
▶ पदपाठः (Word-by-word)
अत्या᳚सः । न । ये । म॒रुतः᳚ । सु॒॑अञ्चः᳚ । य॒क्ष॒॑दृशः᳚ । न । शु॒भय᳚न्त । मर्याः᳚ ।
ते । ह॒र्म्ये॒॑स्थाः । शिश᳚वः । न । शु॒भ्राः । व॒त्सासः᳚ । न । प्र॒॑क्री॒ळिनः᳚ । प॒यः॒॑धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्यासोन अत्याः सततगामिनोश्वाइव स्वंचः सुष्ठु गच्छन्तो ये मरुतः यक्षदृशोन मर्याः यक्षस्योत्सवस्य द्रष्टारोमनुष्याइव शुभयन्त शोभन्ते हर्म्येष्ठाः हर्म्येस्थिताः शिशवोन कुमाराइव शुभ्राः शोभमाना वत्सासोन वत्साइव प्रक्रीळिनः प्रक्रीडिनः प्रकर्षेण क्रीडमानाः ते मरुतः पयोधाः पयसउदकस्य धारयितारोदातारोवा भवन्ति ॥ १६ ॥

7.56.17
द॒श॒स्यन्तो᳚ नो म॒रुतो᳚ मृळन्तु वरिव॒स्यन्तो॒ रोद᳚सी सु॒मेके᳚ ।
आ॒रे गो॒हा नृ॒हा व॒धो वो᳚ अस्तु सु॒म्नेभि᳚र॒स्मे व᳚सवो नमध्वम् ॥
▶ पदपाठः (Word-by-word)
द॒श॒स्यन्तः᳚ । नः॒ । म॒रुतः᳚ । मृ॒ळ॒न्तु॒ । व॒रि॒व॒स्यन्तः᳚ । रोद᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ।
आ॒रे । गो॒॑हा । नृ॒॑हा । व॒धः । वः॒ । अ॒स्तु॒ । सु॒म्रेभिः᳚ । अ॒स्मे इति᳚ । व॒स॒वः॒ । न॒म॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतोनोस्मभ्यं दशस्यन्तः धनानि प्रयच्छन्तः सुमेके सुरूपे रोदसी द्यावापृथिव्यौ वरिवस्यन्तः स्वमहिम्ना पूरयन्तः मृळन्तु मृळयंतु अस्मान् सुखयुक्तान् कुर्वन्तु । अपिच हे वसवोवासकामरुतः गोहा गवां मेघस्थानामुदकानां भेदकः नृहा नॄणां शत्रूणां हन्ता वोयु- ष्मदीयं वधः आयुधं आरे अस्तु अस्मत्तोदूरे भवतु । यूयमपि सुम्नेभिः सुम्नैः सुखैः सह अस्मे अस्मासु नमध्वं स्वयमेवाभिमुखा- भवत ॥ १७ ॥ मारुतेपशौ आवोहोतेत्येषानुवाक्या सूत्रितंच-आवोहोताजोहवीतिसत्तः प्रचित्रमर्कंगृणतेतुरायेति ।

7.56.18
आ वो॒ होता᳚ जोहवीति स॒त्तः स॒त्राचीं᳚ रा॒तिं म᳚रुतो गृणा॒नः ।
य ईव᳚तो वृषणो॒ अस्ति᳚ गो॒पाः सो अद्व᳚यावी हवते व उ॒क्थैः ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । होता᳚ । जो॒ह॒वी॒ति॒ । स॒त्तः । स॒त्राची᳚ । रा॒तिम् । म॒रु॒तः॒ । गृ॒णा॒नः ।
यः । ईव᳚तः । वृ॒ष॒णः॒ । अस्ति᳚ । गो॒पाः । सः । अद्व᳚यावी । ह॒व॒ते॒ । वः॒ । उ॒क्थैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः सत्तः होतृषदने निषण्णोस्मदीयोहोता सत्राचीं सर्वतोगमनशीलं राति त्वदीयं दानं गृणानः स्तुवन् वोयुष्मान् आजोहवीति भृशमाह्वयति । हे वृषणः कामानां वर्षितारोमरुतः योहोता ईवतोगच्छतोव्यापारवतोयजमानस्य गोपाअस्ति युष्मदाह्वाननिमित्तेन रक्षकोभवति सहोता अद्वयावी मायारहितः सन् वोयुष्मान् उक्थैः स्तोत्रैर्हवते स्तौति ॥ १८ ॥

7.56.19 समानपद
इ॒मे तु॒रं म॒रुतो᳚ रामयन्ती॒मे सह॒ः सह᳚स॒ आ न᳚मन्ति ।
इ॒मे शंसं᳚ वनुष्य॒तो नि पा᳚न्ति गु॒रु द्वेषो॒ अर᳚रुषे दधन्ति ॥
▶ पदपाठः (Word-by-word)
इ॒मे । तु॒रम् । म॒रुतः᳚ । र॒म॒य॒न्ति॒ । इ॒मे । सहः᳚ । सह᳚सः । आ । न॒म॒न्ति॒ ।
इ॒मे । शंस᳚म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः᳚ । अर᳚रुषे । द॒ध॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे ईदृशोमरुतः तुरं कर्मसु क्षिप्रवन्त् यजमानं रमयन्ति क्रीडयन्ति इमे मरुतः सहः सहसा बलेन सहसोबलवतोजनान् आनमन्ति इमे मरुतः वनुष्यतोहिंसकात् पुरुषात् शंसं शंसकं स्तोतारं निपान्ति नितरांपालयन्ति अररुषे हविरप्रयच्छते जनाय गुरु महत् द्वेषः अप्रियं दधन्ति कुर्वन्ति ॥ १९ ॥

7.56.20
इ॒मे र॒ध्रं चि᳚न्म॒रुतो᳚ जुनन्ति॒ भृमिं᳚ चि॒द्यथा॒ वस᳚वो जु॒षन्त᳚ ।
अप᳚ बाधध्वं वृषण॒स्तमां᳚सि ध॒त्त विश्वं॒ तन᳚यं तो॒कम॒स्मे ॥
▶ पदपाठः (Word-by-word)
इ॒मे । र॒ध्रम् । चि॒त् । म॒रुतः᳚ । जु॒न॒न्ति॒ । भृमि᳚म् । चि॒त् । यथा᳚ । वस᳚वः । जु॒षन्त᳚ ।
अप᳚ । बा॒ध॒ध्व॒म् । वृ॒ष॒णः॒ । तमां᳚सि । ध॒त्त । विश्व᳚म् । तन᳚यम् । तो॒कम् । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे मरुतः रध्रं चित् समृद्धमपि जनं जुनन्ति प्रेरयन्ति भृमिं चित् भ्रमणशीलमपि दरिद्रं जुनन्ति प्रेरयन्ति वसवोवासकादेवाः युष्मान् यथा जुषन्त कामयेरन् हे वृषणः कामानांवर्षितारस्ते यूयं तमांसि अपबाधध्वं नाशयत । अपिच अस्मे अस्मभ्यं विश्वं बहुलं तोकं पुत्रं तनयं पौत्रं च धत्त प्रयच्छत ॥ २० ॥

7.56.21 समानपद
मा वो᳚ दा॒त्रान्म᳚रुतो॒ निर᳚राम॒ मा प॒श्चाद्द᳚घ्म रथ्यो विभा॒गे ।
आ नः᳚ स्पा॒र्हे भ᳚जतना वस॒व्ये॒३॒᳚ यदीं᳚ सुजा॒तं वृ᳚षणो वो॒ अस्ति᳚ ॥
▶ पदपाठः (Word-by-word)
मा । वः॒ । दा॒त्रात् । म॒रु॒तः॒ । निः । अ॒रा॒म॒ । मा । प॒श्चात् । द॒घ्म॒ । र॒थ्यः॒ । वि॒॑भा॒गे ।
आ । नः॒ । स्पा॒र्हे । भ॒ज॒त॒न॒ । व॒स॒व्ये᳚ । यत् । ई॒म् । सु॒॑जा॒तम् । वृ॒ष॒णः॒ । वः॒ । अस्ति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वोयुष्माकं दात्राद्दानात् मानिरराम् वयंमानिर्गमाम यूयमस्मान् परित्यत्त्कान्येभ्योधनमादत्तेत्यर्थः हे रथ्योरथवन्तोमरुतः विभागे युष्मदीयस्य धनस्य दाने पश्चान्मादघ्म दघ्मतिर्गतिकर्मा वयं पश्चाद्भागिनोमाभूम यूयं प्रथममस्मभ्यमेव दत्तेति यावत् । स्पार्हे स्पृहणीये वसव्ये धनसमूहे यूयं नोस्मान् आभजतन भागिनः कुरुत । हे वृषणः वर्षितारोमरुतः वोयुष्माकं सुजातं शोभनजनं यद्वसव्ये वसव्यमस्ति तस्मिन् भागिनः कुरुतेति संबन्धः ईमितिपूरणः ॥ २१ ॥

7.56.22 समानपद
सं यद्धन᳚न्त म॒न्युभि॒र्जना᳚स॒ः शूरा᳚ य॒ह्वीष्वोष᳚धीषु वि॒क्षु ।
अध᳚ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो᳚ भूत॒ पृत᳚नास्व॒र्यः ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । हन᳚न्त । म॒न्यु॑भिः᳚ । जना᳚सः । शूराः᳚ । य॒ह्वीषु᳚ । ओष᳚धीषु । वि॒क्षु ।
अध᳚ । स्म॒ । नः॒ । म॒रु॒तः॒ । रु॒द्रि॒या॒सः॒ । त्रा॒तारः᳚ । भू॒त॒ । पृत᳚नासु । अ॒र्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा शूराविक्रान्ताः जनासोजनाः यह्वीषु महतीषु ओषधीषु विक्षु प्रजासु च जेतव्यासु मन्युभिः कोपैः अभिमानैर्वा संहनन्त संगच्छ- न्ते अध तदानीं हे रुद्रियासोरुद्रपुत्रा हेमरुतः यूयं प्रुतनासु यद्धेषु अर्यः अरेः शत्रोः सकाशात् नोस्माकं त्रातारो भूत रक्षकाभवत । स्मेति- पूरणः ॥ २२ ॥

7.56.23
भूरि᳚ चक्र मरुत॒ः पित्र्या᳚ण्यु॒क्थानि॒ या वः᳚ श॒स्यन्ते᳚ पु॒रा चि᳚त् ।
म॒रुद्भि᳚रु॒ग्रः पृत᳚नासु॒ साळ्हा᳚ म॒रुद्भि॒रित्सनि᳚ता॒ वाज॒मर्वा᳚ ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । च॒क्र॒ । म॒रु॒तः॒ । पित्र्या᳚णि । उ॒क्थानि᳚ । या । वः॒ । श॒स्यन्ते᳚ । पु॒रा । चि॒त् ।
म॒रुत्॑भिः᳚ । उ॒ग्रः । पृत᳚नासु । साळ्हा᳚ । म॒रुत्॑भिः᳚ । इत् । सनि᳚ता । वाज᳚म् । अर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोयूयं भूरि भूरीणि बहूनि पित्र्याणि अस्मत् पितृसंबन्धीनि धनदानादीनि कर्माणि चक्र कृतवन्तोभवत पुराचित् पूर्वकालेपि वो- युष्माकं उक्थानि प्रशस्यानि या यानि कर्माणि शस्यन्ते प्रख्यायन्ते तानि चक्रेति संबन्धः । उग्रओजस्वी पृतनासु युद्धेषु मरुद्भिर्युष्मा- भिर्हेतुभिः साह्ळा शत्रूणामभिभविता भवति । मरुद्भिरित् मरुद्भिर्युष्माभिरेव हेतुभिः अर्वा स्तोत्रैरभिगन्ता वाजमन्नं सनिता संभक्ता भवति यद्वा अर्षा अश्वः वाजं युद्धं सनिता भवति ॥ २३ ॥

7.56.24
अ॒स्मे वी॒रो म᳚रुतः शु॒ष्म्य᳚स्तु॒ जना᳚नां॒ यो असु᳚रो विध॒र्ता ।
अ॒पो येन᳚ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको᳚ अ॒भि वः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । वी॒रः । म॒रु॒तः॒ । शु॒ष्मी । अ॒स्तु॒ । जना᳚नाम् । यः । असु᳚रः । वि॒॑ध॒र्ता ।
अ॒पः । येन᳚ । सु॒॑क्षि॒तये᳚ । तरे᳚म । अध᳚ । स्वम् । ओकः᳚ । अ॒भि । वः॒ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः अस्मे अस्माकं वीरः पुत्रः शुष्मी अस्तु बलवान् भवतु असुरः प्रज्ञावान् योजनानां शत्रूणां विधर्ता विधारकः येन पुत्रेण वयं सुक्षितये सुष्ठुनिवासाय अपः आप्नुवतः शत्रून् तरेम हिंसेम सपुत्रोबलवानस्त्विति पूर्वेणान्वयः । अधापिच वोयुष्मदीयावयं स्वमोकः आत्मीयं स्थानं अभिस्याम आतिष्ठेम ॥ २४ ॥

7.56.25
तन्न॒ इन्द्रो॒ वरु᳚णो मि॒त्रो अ॒ग्निराप॒ ओष᳚धीर्व॒निनो᳚ जुषन्त ।
शर्म᳚न्त्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । इन्द्रः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । आपः᳚ । ओष᳚धीः । व॒निनः᳚ । जु॒ष॒न्त॒ ।
शर्म᳚न् । स्या॒म॒ । म॒रुता᳚म् । उ॒प॑स्थे᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वं व्याख्यातेयं अक्षरार्थस्तु इन्द्रादयोदेवाः अस्मदीयं स्तोत्रं सेवन्तां मरुतामुपस्थाने वर्तमाना वयं सुखे स्याम हे मरुतोयूयं सर्वदास्मन् अविनाशैः पालयत ॥ २५ ॥

मध्वोवइति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकं मध्वःसप्तेत्यनुक्रान्तम् । दशरात्रे षष्ठेहनि आग्निमारुतेइदं मारुत- निविद्धानं सूत्रितंच-मध्वोवोनाम सप्रत्नथेत्याग्निमारुतमिति ।