अ॒यं वा᳚म॒ह्वे॑व᳚से शचीवसू॒ विशं᳚विशं॒ हि गच्छ᳚थः ॥
पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । अ॒ह्वे॒ । अव᳚से । श॒ची॒व॒सू॒ इति᳚ शची॑वसू । विश᳚म्॑विशम् । हि । गच्छ᳚थः ॥
सायणभाष्यम् (Sayana Commentary)
इमा दिविष्टयोदिवमिच्छन्त्यः प्रजा ऋत्विजोपि उइतिचार्थे हे अश्विना उस्रा वासकौ वां हवन्ते आह्वयन्ति अयं वसिष्ठोपि हे शचीवसू कर्मधनौ वां युवां अवसेस्मद्रक्षणाय युवयोस्तर्पणायवा अह्वे आह्वयामि किमर्थमेवं प्रजाअप्यहमपीत्यादरोक्तिरिति तत्राह हि यस्मात् कारणात् युवां विशंविशं प्रजांप्रजां प्रति गच्छथः ॥ १ ॥