अधा᳚ ह॒ यन्तो᳚ अ॒श्विना॒ पृक्ष᳚ः सचन्त सू॒रयः᳚ ।
ता यं᳚सतो म॒घव᳚द्भ्यो ध्रु॒वं यश᳚श्छ॒र्दिर॒स्मभ्यं॒ नास᳚त्या ॥
ता यं᳚सतो म॒घव᳚द्भ्यो ध्रु॒वं यश᳚श्छ॒र्दिर॒स्मभ्यं॒ नास᳚त्या ॥
पदपाठः (Word-by-word)
अध᳚ । ह॒ । यन्तः᳚ । अ॒श्विना᳚ । पृक्षः᳚ । स॒च॒न्त॒ । सू॒रयः᳚ ।
ता । यं॒स॒तः॒ । म॒घव᳚त्॑भ्यः । ध्रु॒वम् । यशः᳚ । छ॒र्दिः । अ॒स्मभ्य᳚म् । नास᳚त्या ॥
ता । यं॒स॒तः॒ । म॒घव᳚त्॑भ्यः । ध्रु॒वम् । यशः᳚ । छ॒र्दिः । अ॒स्मभ्य᳚म् । नास᳚त्या ॥
सायणभाष्यम् (Sayana Commentary)
अधाह अपिच अश्विना अश्विनौ यन्तः स्तुतिभिर्गच्छन्तोयजमानाः सूरयोमेधाविनः स्तोतारं पृक्षोन्नं प्रभूतं सचन्त सेवन्ते संयन्तिवा ता तौ युवां मघवद्भोन्नवद्भोस्मभ्यं ध्रुवं अविचलितं यशोन्नं यशएववा छर्दिर्गृहं यंसतः प्रयच्छतम् हे नासत्याश्विनौ ॥ ५ ॥