आ या᳚त॒मुप᳚ भूषतं॒ मध्व᳚ः पिबतमश्विना ।
दु॒ग्धं पयो᳚ वृषणा जेन्यावसू॒ मा नो᳚ मर्धिष्ट॒मा ग᳚तम् ॥
दु॒ग्धं पयो᳚ वृषणा जेन्यावसू॒ मा नो᳚ मर्धिष्ट॒मा ग᳚तम् ॥
पदपाठः (Word-by-word)
आ । या॒त॒म् । उप᳚ । भू॒ष॒त॒म् । मध्वः᳚ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ।
दु॒ग्धम् । पयः᳚ । वृ॒ष॒णा॒ । जे॒न्या॒व॒सू॒ इति᳚ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् ॥
दु॒ग्धम् । पयः᳚ । वृ॒ष॒णा॒ । जे॒न्या॒व॒सू॒ इति᳚ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना युवां आयातमागच्छतं आगत्य चोपसमीपे भूषतं भवतं मध्वः मधुरं सोमरसं पिबतं पीत्वाच हे वृषणा वर्षकौ हे जेन्यावस् जेतव्यधनौ जितधनावित्यर्थः युवां पयोवृष्ट्युदकं अन्तरिक्षात् दुग्धं नोस्मान् ममर्धिष्टं माहिंस्तं ईदृशप्रार्थनाकरणमेवहिंसा आगत- मागच्छतं शीघ्रम् ॥ ३ ॥