यु॒वं चि॒त्रं द᳚दथु॒र्भोज᳚नं नरा॒ चोदे᳚थां सू॒नृता᳚वते ।
अ॒र्वाग्रथं॒ सम᳚नसा॒ नि य᳚च्छतं॒ पिब᳚तं सो॒म्यं मधु᳚ ॥
अ॒र्वाग्रथं॒ सम᳚नसा॒ नि य᳚च्छतं॒ पिब᳚तं सो॒म्यं मधु᳚ ॥
पदपाठः (Word-by-word)
यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज᳚नम् । न॒रा॒ । चोदे᳚थाम् । सू॒नृता᳚॑वते ।
अ॒र्वाक् । रथ᳚म् । स॑म᳚नसा । नि । य॒च्छ॒त॒म् । पिब᳚तम् । सो॒म्यम् । मधु᳚ ॥
अ॒र्वाक् । रथ᳚म् । स॑म᳚नसा । नि । य॒च्छ॒त॒म् । पिब᳚तम् । सो॒म्यम् । मधु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा अश्विनौ युवं युवां चित्रं चायनीयं भोजनं धनं दधथुः धारयेथे तद्धनं सूनृतावते स्तुतिवते स्तोत्रे चोदेथां प्रेरयतं तदर्थं समनसा समानमनस्कौ सन्तौ रथं युवयोः संबन्धिनं अर्वागस्मदभिमुखं नियच्छतं नियमतम् । तथा कृत्वा सोम्यं सोमसंबन्धिनं मधु मधुररसं पिबतम् ॥ २ ॥