श्रवणम्

7.74.4
अश्वा᳚सो॒ ये वा॒मुप᳚ दा॒शुषो᳚ गृ॒हं यु॒वां दीय᳚न्ति॒ बिभ्र᳚तः ।
म॒क्षू॒युभि᳚र्नरा॒ हये᳚भिरश्वि॒ना दे᳚वा यातमस्म॒यू ॥
▶ पदपाठः (Word-by-word)
अश्वा᳚सः । ये । वा॒म् । उप᳚ । दा॒शुषः᳚ । गृ॒हम् । यु॒वाम् । दीय᳚न्ति । बिभ्र᳚तः ।
म॒क्षु॒यु॑भिः᳚ । न॒रा॒ । हये᳚भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य᳚स्म॒॑यू ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये अश्वासोश्वाः वां युवयोः स्वभूता दाशुषोहविर्दातुर्गृहं युवां बिभ्रतोधारयन्तोदीयन्ति गमयन्तीत्यर्थः मक्षूयुभिः शीघ्रगन्तृभिर्हयेभिः हयैरश्वैः हे नरा नेतारौ अश्विना अश्विनौ देवा देवौ अस्मयू अस्मान्कामयमानौ आयातं अस्मद्यज्ञमागच्छतम् ॥ ४ ॥