उ॒त स्वेन॒ शव᳚सा शूशुवु॒र्नर᳚ उ॒त क्षि᳚यन्ति सुक्षि॒तिम् ॥
पदपाठः (Word-by-word)
उ॒त । स्वेन᳚ । शव᳚सा । शू॒शु॒वुः॒ । नरः᳚ । उ॒त । क्षि॒य॒न्ति॒ । सु॒॑क्षि॒तिम् ॥
सायणभाष्यम् (Sayana Commentary)
य यजमानाः अवृकासः परकीयधनस्यानादातारः जनानां मनुष्याणां मध्ये नृपातारः ऋत्विग्रूपाणां नृणां रक्षितारः सन्तोययुः युवां प्राप्नुवन्ति हविर्भिः । प्रप्तौ दृष्टान्तः-रथाइव व्रीह्यादिपूर्णा रथायथा प्राप्नुवन्ति स्वामिगृहम् । उतेत्ययमुत्तरवाक्यापेक्षः अपिच ते नरोयज- मानाः स्वेन शवसा स्वीयेन बलेन शूशुवुः वर्धन्ते उतापिच सुक्षितिं सुनिवासं क्षियन्ति गच्छन्ति प्राप्नुवन्ति ॥ ६ ॥
व्युषाआवइत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षम् अत्रानुक्रमणिका व्युषाअष्टाउषस्यंतुवाइति तुवाइत्युक्तत्वात्तुत्द्यादिपरिभाषयेदमादीनि सप्तसूक्तान्युषोदेवत्यानि प्रातरनुवाके उषस्येक्रतौ त्रैष्टुभेछन्दसि अश्विनशस्त्रे चेदमादीनिषट्सूक्तानि तथाचसूत्र्यते-व्युषाआवोदिविजा- इतिषडिति त्रैष्टुभमिति । ऋग्विधाने आख्यातोविनियोगोत्रलिख्यते-रात्र्याअपरकालेयउत्थायप्रयतः शुचिः । व्युषाइत्युपतिष्ठेतष~ड्मिः सूक्तैः कृताञ्जलिः ॥ १ ॥
प्राप्नुयात्सहिरण्यानिनानारूपंधनंबहु । गावोश्वान्पुरुषान् धान्यं स्त्रियोवासांस्यजाविकमिति ॥ २ ॥