सप्तमं मण्डलम् - सूक्तम् 39

7 ऋचः

ऋषिः: वसिष्ठः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 7.39 - सम्पूर्णम्

1 / 7
ऋक्: 7.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.39.1 समानपद
ऊ॒र्ध्वो अ॒ग्निः सु᳚म॒तिं वस्वो᳚ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता᳚तिमेति ।
भे॒जाते॒ अद्री᳚ र॒थ्ये᳚व॒ पन्था᳚मृ॒तं होता᳚ न इषि॒तो य᳚जाति ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । अ॒ग्निः । सु॒॑म॒तिम् । वस्वः᳚ । अ॒श्रे॒त् । प्र॒ती॒ची । जू॒र्णिः । दे॒व॑ता᳚तिम् । ए॒ति॒ ।
भे॒जाते॒ इति᳚ । अद्री॒ इति᳚ । र॒थ्या᳚॑इव । पन्था᳚म् । ऋ॒तम् । होता᳚ । नः॒ । इ॒षि॒तः । य॒जा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निरंगनादिगुणविशिष्टः ऊर्ध्वउद्गमनः वस्वोवासकस्य स्तोतुः सुमतिं अस्मदीयां शोभनांस्तुतिं अश्रेत् श्रयतु सेवतां प्रतीची अभिमुखी जूर्णिः सर्वासां प्रजानां जरयित्री उषोदेवता देवतातिं यज्ञमेति गच्छति अद्रीआद्रियन्तौ श्रद्धावन्तौ पत्नीयजमानौ पंथां पंथानं यज्ञमा- र्गं रथ्येव रथिनाविव भेजाते सेवाते तथा इषितः संप्रेषितो नोस्मदीयोहोता ऋतं यज्ञं यजाति यजतु करोत्वित्यर्थः ॥ १ ॥

7.39.2
प्र वा᳚वृजे सुप्र॒या ब॒र्हिरे᳚षा॒मा वि॒श्पती᳚व॒ बीरि᳚ट इयाते ।
वि॒शाम॒क्तोरु॒षसः᳚ पू॒र्वहू᳚तौ वा॒युः पू॒षा स्व॒स्तये᳚ नि॒युत्वा᳚न् ॥
▶ पदपाठः (Word-by-word)
प्र । व॒वृ॒जे॒ । सु॒॑प्र॒याः । ब॒र्हिः । ए॒षा॒म् । आ । वि॒श्पती᳚ इ॒वेति᳚ वि॒श्पती᳚॑इव । बीरि᳚टे । इ॒या॒ते॒ इति᳚ ।
वि॒शाम् । अ॒क्तोः । उ॒षसः᳚ । पू॒र्व॑हू᳚तौ । वा॒युः । पू॒षा । स्व॒स्तये᳚ । नि॒युत्वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां यजमानानां संबन्धि सुप्रयाः शोभनान्नेन युक्तं बर्हिः कुशमयं प्रववृजे प्रवृज्यते आसाद्यतेइत्यर्थः विश्पतीव इवेतीदानीमर्थे इदानीं अस्मदीयानां प्रजानां पालकौ नियुत्वान् नियुच्छब्देन वडवाउच्यन्ते तद्वान् वायुः पूषाच विशां प्रजानां स्वस्तये क्षेमाय अक्तोः रात्रेः संबन्धिन्याउषसः सकाशात् पूर्वहूतौ पूर्वस्मिन्नाह्वानेसति बीरिटेन्तरिक्षे आ इयाते आगच्छतां यद्वा विश्पतीवेत्युपमा विशां मनुष्याणां बीरिटे गणे विश्पतीव राजानौ यथा गच्छतां तद्वत् अस्मिन्पक्षे विशामित्यभयत्र संबध्यते ॥ २ ॥

7.39.3 समानपद
ज्म॒या अत्र॒ वस᳚वो रन्त दे॒वा उ॒राव॒न्तरि᳚क्षे मर्जयन्त शु॒भ्राः ।
अ॒र्वाक्प॒थ उ᳚रुज्रयः कृणुध्वं॒ श्रोता᳚ दू॒तस्य᳚ ज॒ग्मुषो᳚ नो अ॒स्य ॥
▶ पदपाठः (Word-by-word)
ज्म॒याः । अत्र᳚ । वस᳚वः । र॒न्त॒ । दे॒वाः । उ॒रौ । अ॒न्तरि᳚क्षे । म॒र्ज॒य॒न्त॒ । शु॒भ्राः ।
अ॒र्वाक् । प॒थः । उ॒रु॒॑ज्र॒यः॒ । कृ॒णु॒ध्व॒म् । श्रोता᳚ । दू॒तस्य᳚ । ज॒ग्मुषः᳚ । नः॒ । अ॒स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसवो वसुसंज्ञकादेवाः अत्रास्मिन्यज्ञे ज्मयाः पृथिव्यां रन्त रमयन्तां उरौ विस्तीर्णे अन्तरिक्षे स्थिताः शुभ्राः दीप्यमानाः मरुतश्च मर्जयन्त परिचर्यन्ते । हे उरुज्रयः प्रभूतगमनाः वस्वोमरुरश्च यूयं पथः युष्मदीयान्मार्गान् अर्वागस्मदभिमुखं यथा भवति तथा कृणुध्वं कुरुत अपिच यूयं जग्मुषः युष्मान् प्रतिगतवतः नोस्मदीयस्य अस्य दूतस्याग्नेराह्वानं श्रोत शृणुत अग्निर्हि यजमानानां दूतःसन् देवा- नाह्वयतीत्यर्थः ॥ ३ ॥

7.39.4
ते हि य॒ज्ञेषु᳚ य॒ज्ञिया᳚स॒ ऊमा᳚ः स॒धस्थं॒ विश्वे᳚ अ॒भि सन्ति᳚ दे॒वाः ।
ता{4} अ᳚ध्व॒र उ᳚श॒तो य᳚क्ष्यग्ने श्रु॒ष्टी भगं॒ नास᳚त्या॒ पुरं᳚धिम् ॥
▶ पदपाठः (Word-by-word)
ते । हि । य॒ज्ञेषु᳚ । य॒ज्ञिया᳚सः । ऊमाः᳚ । स॒ध॑स्थ᳚म् । विश्वे᳚ । अ॒भि । सन्ति᳚ । दे॒वाः ।
तान् । अ॒ध्व॒रे । उ॒श॒तः । य॒क्षि॒ । अ॒ग्ने॒ । श्रु॒ष्टी । भग᳚म् । नास᳚त्या । पुर᳚म्॑धिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञेषु यागेषु तेहि तेखलु प्रसिद्धाः यज्ञियासोयज्ञार्हाः ऊमारक्षकाः विश्वे सर्वे देवाः सधस्थं सहस्थानं अभि सन्ति अभिभवन्ति आक्राम- न्ति हे अग्ने अस्मदीये यज्ञे उशतः कामयमानान् तान् देवान् यक्षि यज । तथा श्रुष्टी क्षिप्रनामैतत् क्षिप्रं भगं एतत्संज्ञकं देवं नासत्या नासत्यौ अश्विनौ च पुरंधिं पुरुणां ध्यातारमिन्द्रं च यज ॥ ४ ॥

7.39.5
आग्ने॒ गिरो᳚ दि॒व आ पृ᳚थि॒व्या मि॒त्रं व᳚ह॒ वरु᳚ण॒मिन्द्र᳚म॒ग्निम् ।
आर्य॒मण॒मदि᳚तिं॒ विष्णु᳚मेषां॒ सर᳚स्वती म॒रुतो᳚ मादयन्ताम् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्ने॒ । गिरः᳚ । दि॒वः । आ । पृ॒थि॒व्याः । मि॒त्रम् । व॒ह॒ । वरु᳚णम् । इन्द्र᳚म् । अ॒ग्निम् ।
आ । अ॒र्य॒मण᳚म् । अदि᳚तिम् । विष्णु᳚म् । ए॒षा॒म् । सर᳚स्वती । म॒रुतः᳚ । मा॒द॒य॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं दिवः द्युलोकात सकाशात् गिरः गरीयान् स्तुत्यान् देवान् अस्मदीयं यज्ञं प्रति आवह आह्वानं कुरु पृथिव्याः अन्तरिक्षच्च आवह कान् देवानिति तदुच्यते मित्रं एतत्संज्ञकं वरुणं च इन्द्रं च देवेषु देवतास्वरूपेणावस्थितं चाग्निं अर्यमणमेतत्संज्ञकं अदिति- मदीनां पृथ्वींच विष्णुंच एवंभूतान् देवान् एषामस्माकं यजमानानामर्थाय आवह सरस्वती वाग्देवता च मरुतश्च मादयन्तां अस्मदीयैः स्तोत्रैर्हविर्भिश्च माद्यन्तु ॥ ५ ॥

7.39.6 समानपद
र॒रे ह॒व्यं म॒तिभि᳚र्य॒ज्ञिया᳚नां॒ नक्ष॒त्कामं॒ मर्त्या᳚ना॒मसि᳚न्वन् ।
धाता᳚ र॒यिम᳚विद॒स्यं स᳚दा॒सां स᳚क्षी॒महि॒ युज्ये᳚भि॒र्नु दे॒वैः ॥
▶ पदपाठः (Word-by-word)
र॒रे । ह॒व्यम् । म॒ति॑भिः᳚ । य॒ज्ञिया᳚नाम् । नक्ष᳚त् । काम᳚म् । मर्त्या᳚नाम् । असि᳚न्वन् ।
धात᳚ । र॒यिम् । अ॒वि॒॑द॒स्यम् । स॒दा॒॑साम् । स॒क्षी॒महि᳚ । युज्ये᳚भिः । नु । दे॒वैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियानां चतुर्थ्यर्थेषष्ठी यज्ञार्हेभ्योदेवेभ्यः मतिभिः अस्मदीयाभिः स्तुतिभिः सह हव्यं हविः ररे अस्माभिर्दीयते मर्त्यानां मनुष्याणां अस्माकं काममभिलाषं असिन्वन् अप्रतिबध्नन् अग्निर्नक्षत् अस्मदीयं यज्ञं व्याप्नोतु । हे देवाः यूयं अविदस्यं अनुपक्षपणीयं सदासां सर्व- दा संभजनीयं रयिं धनं धात अस्मभ्यंदत्त नु अद्य वयं युज्येभिः सहायभूतैः इह यज्ञे समागतैर्देवैः सक्षीमहि यद्वा नुइत्युपमार्थे युज्येभि- र्बन्धुभिरिवदेवैः सक्षीमहि ॥ ६ ॥

7.39.7
नू रोद᳚सी अ॒भिष्टु᳚ते॒ वसि᳚ष्ठैरृ॒तावा᳚नो॒ वरु᳚णो मि॒त्रो अ॒ग्निः ।
यच्छ᳚न्तु च॒न्द्रा उ᳚प॒मं नो᳚ अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । रोद᳚सी॒ इति᳚ । अ॒भिस्तु᳚ते॒ इत्य॒भि॑स्तु᳚ते । वसि᳚ष्ठैः । ऋ॒त॑वा᳚नः । वरु᳚णः । मि॒त्रः । अ॒ग्निः ।
यच्छ᳚न्तु । च॒न्द्राः । उ॒प॒॑मम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नु अद्य रोदसी द्यावापृथिव्यौ वसिष्ठैरस्माभिः पूजार्थं बहुवचनं अभिष्टुते अभितः सर्वतः स्तुते अभूतां तथा ऋतावानः अस्माभिः क्रिय- माणैर्यज्ञैरुपेतोवरुणोमित्रः अग्निश्च एवंभूतादेवाः अस्माभिरभिष्टुताआसन् चन्द्राः आह्लादकादेवाः नोस्मभ्यं अर्कमर्चनीयमन्नं उपमं सर्वोत्कृष्टं यच्छन्तु ददतु सूक्तेप्रतिपादितायेदेवास्तेसर्वे यूयं नोस्मान् स्वस्तिभिः अविनाशैः सदा सर्वदा पात पालयत ॥ ७ ॥

ओश्रुष्टिरिति सप्तर्चं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं ओश्रुष्टिरित्यनुक्रान्तं विनियोगो लैंगिकः ।