सप्तमं मण्डलम् - सूक्तम् 82

10 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रावरुणौ छन्दः: जगती

सूक्तम् 7.82 - सम्पूर्णम्

1 / 10
ऋक्: 7.82.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
7.82.1
इन्द्रा᳚वरुणा यु॒वम᳚ध्व॒राय᳚ नो वि॒शे जना᳚य॒ महि॒ शर्म᳚ यच्छतम् ।
दी॒र्घप्र᳚यज्यु॒मति॒ यो व᳚नु॒ष्यति᳚ व॒यं ज᳚येम॒ पृत᳚नासु दू॒ढ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । यु॒वम् । अ॒ध्व॒राय᳚ । नः॒ । वि॒शे । जना᳚य । महि᳚ । शर्म᳚ । य॒च्छ॒त॒म् ।
दी॒र्घ॑प्र᳚यज्युम् । अति᳚ । यः । व॒नु॒ष्यति᳚ । व॒यम् । ज॒ये॒म॒ । पृत᳚नासु । दुः॒॑ध्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणा इन्द्रावरुणौ युवं युवां नोस्माकं विशेनिवेशयित्रे परिचारकाय जनाय पुत्रपौत्रादिलक्षणाय अध्वराय यज्ञानुष्ठानार्थं महि महत् शर्म गृहं सुखंवा यच्छतं प्रयच्छतम् अपिच दीर्घप्रयज्युं दीर्घप्रततयज्ञं अस्मदीयं जनं यः शत्रुरतिवनुशष्यति अति जिघां- सति पृतनासु संग्रामेषु दूढ्यः दुर्धियाः दुष्टाभिसन्धीन् तान् शत्रून् वयं जयेमाभिभवेम ॥ १ ॥

7.82.2
स॒म्राळ॒न्यः स्व॒राळ॒न्य उ᳚च्यते वां म॒हान्ता॒विन्द्रा॒वरु᳚णा म॒हाव᳚सू ।
विश्वे᳚ दे॒वासः᳚ पर॒मे व्यो᳚मनि॒ सं वा॒मोजो᳚ वृषणा॒ सं बलं᳚ दधुः ॥
▶ पदपाठः (Word-by-word)
स॒म्॑राट् । अ॒न्यः । स्व॒॑राट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ᳚ । इन्द्रा॒वरु᳚णा । म॒हाव᳚सू॒ इति᳚ म॒हा॑व᳚सू ।
विश्वे᳚ । दे॒वासः᳚ । प॒र॒मे । वि॑ओ᳚मनि । सम् । वा॒म् । ओजः᳚ । वृ॒ष॒णा॒ । सम् । बल᳚म् । द॒धुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वितीयः पादःपरोक्षकृतः शिष्टाःप्रत्यक्षकृताः हे इन्द्रावरुणौ वां युवयोर्मध्ये अन्यएकोवरुणः सम्राट् सम्यग्रजमानइत्युच्यते । तासम्राजा- घृतासुतीत्यादिषुकीर्त्यते । अन्यइन्द्रः स्वराट् स्वयमेव अन्यनिरपेक्षयैव राजमानइत्युच्यते । स्वराळीन्द्रोदमइत्यादिषुकीर्त्यते । तथाविध- विन्द्रावरुणा इन्द्रावरुणौ महान्तौ गुणैरधिकौ महावसु महाधनौ च भवतः । हे वृषणा कामानां वर्षिताराविन्द्रावरुणौ वां युवां परमे व्योमनि उत्कृष्टे आकाशे विशेदेवासः सर्वेदेवाः ओजः सन्दधुः समयोजयन् शरीरदार्ढ्याय तद्धेतुभूतं तदोजइत्युच्यते स्मर्यतेच ओजः साष्टमीदशेति तथा बलं वृत्रवधादेः कार्यस्य हेतुभूतं सामर्थ्यंच युवाभ्यां सन्दधुः समयोजयन् ॥ २ ॥

7.82.3
अन्व॒पां खान्य᳚तृन्त॒मोज॒सा सूर्य᳚मैरयतं दि॒वि प्र॒भुम् ।
इन्द्रा᳚वरुणा॒ मदे᳚ अस्य मा॒यिनो॑पि᳚न्वतम॒पित॒ः पिन्व᳚तं॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । अ॒पाम् । खानि᳚ । अ॒तृ॒न्त॒म् । ओज᳚सा । आ । सूर्य᳚म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒॑भुम् ।
इन्द्रा᳚वरुणा । मदे᳚ । अ॒स्य॒ । मा॒यिनः᳚ । अपि᳚न्वतम् । अ॒पितः᳚ । पिन्व᳚तम् । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ अपामुदकानां खानि द्वाराणि वृत्रेण पिहितानि ओजसा बलेन अन्वतृन्तं अन्वविध्यतं आवरकस्य वृत्रस्य वधेन वृष्टिप्रतिबन्धं निराकृतवन्तावित्यर्थः तथा सूर्यं सर्वस्य प्रेरकमादित्यं दिव्यंतरिक्षे प्रभुं प्रभूतं सन्तं ऎरयतं अभ्यगमयतम् स्वर्भानुना वृतं सूर्यं तद्वधेन प्रकाशितवन्तावित्यर्थः हे इन्द्रावरुणा इन्द्रावरुणौ मायिनः प्रज्ञाकरस्य अस्यसोमस्य पानेन मदे हर्षेसति अपितः जल- रहितानदीः अपिन्वतं जलेनापूरयतम् । तथाच निवित्पदमाम्नायतेअस्यमदेजरितरिंद्रोजिन्वदजुवोपिन्वदपितइति । अपिच धियः कर्माण्यस्माभिर्नुष्ठितानि कर्माणि पिन्वतं सिञ्चतं फलेन पूरयतम् ॥ ३ ॥

7.82.4
यु॒वामिद्यु॒त्सु पृत᳚नासु॒ वह्न᳚यो यु॒वां क्षेम᳚स्य प्रस॒वे मि॒तज्ञ᳚वः ।
ई॒शा॒ना वस्व᳚ उ॒भय᳚स्य का॒रव॒ इन्द्रा᳚वरुणा सु॒हवा᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । इत् । यु॒त्॑सु । पृत᳚नासु । वह्न᳚यः । यु॒वाम् । क्षेम᳚स्य । प्र॒॑स॒वे । मि॒त॑ज्ञ᳚वः ।
ई॒शा॒ना । वस्वः᳚ । उ॒भय᳚स्य । का॒रवः᳚ । इन्द्रा᳚वरुणा । सु॒॑हवा᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ वह्नयोहविषां स्तोत्रणां वा वोढारः ऋत्विजः युत्सु युद्धेषु पृतनासु शत्रुसेनासु रक्षणार्थं युवामित् युवामेव हवन्ते आह्वयन्ति मितज्ञवः संकुचितजानुकाः अंगिरसोपि क्षेमस्य रक्षणस्य प्रसवे उत्पादने निमित्तभूते सति युवामेव हवन्ते अतः कारणात् हे इन्द्रावरुणौ कारवः स्तोतारोवयमपि उभयस्य दिव्यस्य पार्थिवस्य च वस्वोवसुनोधनस्य ईशाना ईश्वरौ सुहवा सुखेन ह्वातव्यौ युवामेव हवामहे आह्वयामहे ॥ ४ ॥

7.82.5
इन्द्रा᳚वरुणा॒ यदि॒मानि᳚ च॒क्रथु॒र्विश्वा᳚ जा॒तानि॒ भुव᳚नस्य म॒ज्मना᳚ ।
क्षेमे᳚ण मि॒त्रो वरु᳚णं दुव॒स्यति᳚ म॒रुद्भि᳚रु॒ग्रः शुभ᳚म॒न्य ई᳚यते ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । यत् । इ॒मानि᳚ । च॒क्रथुः᳚ । विश्वा᳚ । जा॒तानि᳚ । भुव᳚नस्य । म॒ज्मना᳚ ।
क्षेमे᳚ण । मि॒त्रः । वरु᳚णम् । दु॒व॒स्यति᳚ । म॒रुत्॑भिः᳚ । उ॒ग्रः । शुभ᳚म् । अ॒न्यः । ई॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ यत् यौ युवां भुवनस्य लोकस्य संबन्धीनि इमानि परिदृश्यमानानि विश्वा सर्वाणि जातानि जातिमन्तिभूतजातानि मज्मना आत्मीयेन बलेन चक्रथुः कृतवन्तौ तयोर्युवयोर्मध्ये एकं वरुणं क्षेमेण रक्षणहेतुना मित्रोदेवोदुवस्यति परिचरति मित्रावरुणौ हि परस्परं प्राप्तसख्यौ अतएव सहचरौ दृश्येते अन्यएकः इन्द्रः मरुद्भिर्मरुद्गणैः उग्रः उद्गूर्णबलः सन् शुभं शोभनमलंकारं ईयते प्राप्नोति यद्वा मरुद्भिर्मध्यस्थानैर्देवगणैःसर्धं उग्रओजस्वी इन्द्रः शुभमदकं ईयते प्रेरयति ॥ ५ ॥

7.82.6
म॒हे शु॒ल्काय॒ वरु᳚णस्य॒ नु त्वि॒ष ओजो᳚ मिमाते ध्रु॒वम᳚स्य॒ यत्स्वम् ।
अजा᳚मिम॒न्यः श्न॒थय᳚न्त॒माति᳚रद्द॒भ्रेभि᳚र॒न्यः प्र वृ᳚णोति॒ भूय᳚सः ॥
▶ पदपाठः (Word-by-word)
म॒हे । शु॒ल्काय᳚ । वरु᳚णस्य । नु । त्वि॒षे । ओजः᳚ । मि॒मा॒ते॒ इति᳚ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् ।
अजा᳚मिम् । अ॒न्यः । श्न॒थय᳚न्तम् । आ । अति᳚रत् । द॒भ्रेभिः᳚ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणस्य उपलक्षणमेतत् इन्द्रस्य वरुणस्यच त्विषे दीप्यर्थं ओजोबलं नु क्षिप्रं मिमाते स्तोत्रण निर्मिमाते यजमानपत्न्यौ स्तोत्रेण हि बलं जायते किमर्थं महे महते शुल्काय धनाय ईदृशस्य धनस्य लाभार्थं अस्येन्द्रस्य वरुणस्यच ध्रुवं नित्यं स्वं स्वकीयं असाधारणं यदो- जोविद्यते तदोजोमिमाते इत्यन्वयः तयोरिन्द्रावरुणयोः अन्यएकोवरुणः अजामिं अबन्धुं अस्तुवन्तं श्नथयन्तं हिंसन्तं कर्माण्यकुर्वन्तं अस्तोतारमयजमानं च आतिरत् अभिहन्ति अन्यएकः इन्द्रः दभ्रेभिः अल्पैरेवोपायैः भूयसः बहुतरान् शत्रून्प्रवृणोति प्रकर्षेणावृतान् बाधितान्करोति यद्वा भूयसोयजमानान् प्रवृणोति प्रवरानुत्कृष्टान् करोति ॥ ६ ॥

7.82.7
न तमंहो॒ न दु᳚रि॒तानि॒ मर्त्य॒मिन्द्रा᳚वरुणा॒ न तप॒ः कुत᳚श्च॒न ।
यस्य᳚ देवा॒ गच्छ᳚थो वी॒थो अ᳚ध्व॒रं न तं मर्त᳚स्य नशते॒ परि᳚ह्वृतिः ॥
▶ पदपाठः (Word-by-word)
न । तम् । अंहः᳚ । न । दुः॒॑इ॒तानि᳚ । मर्त्य᳚म् । इन्द्रा᳚वरुणा । न । तपः᳚ । कुतः᳚ । च॒न ।
यस्य᳚ । दे॒वा॒ । गच्छ᳚थः । वी॒थः । अ॒ध्व॒रम् । न । तम् । मर्त᳚स्य । न॒श॒ते॒ । परि᳚॑ह्वृतिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणा इन्द्रावरुणौ तं मर्त्यं मनुष्यं अहः पापं ननशते नव्याप्नोति नच दुरितानि दुर्गमनानि पापफलानिच प्राप्नुवन्ति कुतश्चन कस्मादपि निमित्तात्तपः सन्तापश्च तं नप्राप्नोति हे देवादेवौ दानादिगुणयुक्ताविन्द्रावरुणौ यस्य मर्तस्य मनुष्यस्य अध्वरं यज्ञं गच्छथः प्राप्नुथोयुवाम वीथः कामयेथेच यस्य हवींषि तं मनुष्यं परिह्रुतिः परिबाधा नशते उक्तप्रकारेण नव्याप्नोति ॥ ७ ॥

7.82.8 समानपद
अ॒र्वाङ्न᳚रा॒ दैव्ये॒नाव॒सा ग᳚तं शृणु॒तं हवं॒ यदि᳚ मे॒ जुजो᳚षथः ।
यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं᳚ मार्डी॒कमि᳚न्द्रावरुणा॒ नि य᳚च्छतम् ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाक् । न॒रा॒ । दैव्ये᳚न । अव᳚सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव᳚म् । यदि᳚ । मे॒ । जुजो᳚षथः ।
यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य᳚म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेताराविन्द्रावरुणौ दैव्येन देवसंबन्धिना अवसा रक्षणेन श अर्वागस्मदभिमुखं आगतमागच्छतम् आगत्यच मदीयं स्तोत्रं हवं श्रृणुतम् । यदि मे मम जुजोषथः प्रीयेथे मयिप्रीतिरस्तिचेत् युवाभ्यां आगन्तव्यं मदीयं स्तोत्रं श्रोतव्यञ्च भवतीत्यर्थः । युवोर्हि युवयोः खलु यत्सख्यं सखित्वं उतवा अपिच यदाप्यं आपित्वं बान्धवं बान्धवं मार्डीकं मृडीकस्य सुखस्य साधनं तदुभयं हे इन्द्रावरुणौ नियच्छतं अस्मभ्यं प्रयच्छतं ॥ ८ ॥

7.82.9
अ॒स्माक᳚मिन्द्रावरुणा॒ भरे᳚भरे पुरोयो॒धा भ᳚वतं कृष्ट्योजसा ।
यद्वां॒ हव᳚न्त उ॒भये॒ अध᳚ स्पृ॒धि नर᳚स्तो॒कस्य॒ तन᳚यस्य सा॒तिषु᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे᳚॑भरे । पु॒रः॒॑यो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒॑ओ॒ज॒सा॒ ।
यत् । वा॒म् । हव᳚न्ते । उ॒भये᳚ । अध᳚ । स्पृ॒धि । नरः᳚ । तो॒कस्य᳚ । तन᳚यस्य । सा॒तिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कृष्ट्योजसा शत्रूणां कर्षणकं ओजोबलं ययोः तादृशौ हे इन्द्रावरुणौ भरेभरे संग्रामेसंग्रामे अस्माकं पुरोयोधा पुरस्ताद्योधारौभवतं यत् यौ वां युवां उभये उभयविधाः पूर्वकालीना इदानींतनाश्च नरो नेतारः स्तोतारः स्पृधि युद्धे यौ युवां हवन्ते अध अपिच तोकस्य पुत्रस्य तनयस्य पौत्रस्य सातिषु संभजनीयेषु निमित्तभूतेषुच यौ युवां हवन्ते तावस्माकं पुरोयोधा भवतमित्यन्वयः ॥ ९ ॥

7.82.10
अ॒स्मे इन्द्रो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा द्यु॒म्नं य᳚च्छन्तु॒ महि॒ शर्म᳚ स॒प्रथः᳚ ।
अ॒व॒ध्रं ज्योति॒रदि᳚तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म᳚नामहे ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । इन्द्रः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि᳚ । शर्म᳚ । स॒॑प्रथः᳚ ।
अ॒व॒ध्रम् । ज्योतिः᳚ । अदि᳚तेः । ऋ॒त॒॑वृधः᳚ । दे॒वस्य᳚ । श्लोक᳚म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्मभ्यं इन्द्रादयः द्युम्नं द्योतमानं धनं यच्छन्तु प्रयच्छंतु तथा महि महत् सप्रथः सर्वतः पृथु विस्तीर्णं शर्म गृहं च प्रयच्छन्तु अपिच ऋतावृधः ऋतस्य वर्धयित्र्याः अदितेरदीनाया देवमातुः ज्योतिस्तेजश्च नोस्माकं अवध्रं अहिंसकमस्तु वयंच देवस्य दाना- दिगुणयुक्तस्य सवितुः सर्वस्य प्रेरकस्य श्लोकं स्तोत्रं मनामहे जानीमः कुर्मइत्यर्थः । यद्वा देवेन सवित्रा अस्मभ्यं देयं श्लोकं यशः मनामहे याचामहे ॥ १० ॥

युवांनरेति दशर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं जागतमैन्द्रावरुणं युवांनरेत्यनुक्रान्तम् । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ प्रशास्तुः इदंसूक्तमावापार्थं सूत्रितंच-युवांनरापुनीषेवामिति ।