श्रवणम्

7.82.6
म॒हे शु॒ल्काय॒ वरु᳚णस्य॒ नु त्वि॒ष ओजो᳚ मिमाते ध्रु॒वम᳚स्य॒ यत्स्वम् ।
अजा᳚मिम॒न्यः श्न॒थय᳚न्त॒माति᳚रद्द॒भ्रेभि᳚र॒न्यः प्र वृ᳚णोति॒ भूय᳚सः ॥
▶ पदपाठः (Word-by-word)
म॒हे । शु॒ल्काय᳚ । वरु᳚णस्य । नु । त्वि॒षे । ओजः᳚ । मि॒मा॒ते॒ इति᳚ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् ।
अजा᳚मिम् । अ॒न्यः । श्न॒थय᳚न्तम् । आ । अति᳚रत् । द॒भ्रेभिः᳚ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणस्य उपलक्षणमेतत् इन्द्रस्य वरुणस्यच त्विषे दीप्यर्थं ओजोबलं नु क्षिप्रं मिमाते स्तोत्रण निर्मिमाते यजमानपत्न्यौ स्तोत्रेण हि बलं जायते किमर्थं महे महते शुल्काय धनाय ईदृशस्य धनस्य लाभार्थं अस्येन्द्रस्य वरुणस्यच ध्रुवं नित्यं स्वं स्वकीयं असाधारणं यदो- जोविद्यते तदोजोमिमाते इत्यन्वयः तयोरिन्द्रावरुणयोः अन्यएकोवरुणः अजामिं अबन्धुं अस्तुवन्तं श्नथयन्तं हिंसन्तं कर्माण्यकुर्वन्तं अस्तोतारमयजमानं च आतिरत् अभिहन्ति अन्यएकः इन्द्रः दभ्रेभिः अल्पैरेवोपायैः भूयसः बहुतरान् शत्रून्प्रवृणोति प्रकर्षेणावृतान् बाधितान्करोति यद्वा भूयसोयजमानान् प्रवृणोति प्रवरानुत्कृष्टान् करोति ॥ ६ ॥