श्रवणम्

7.82.3
अन्व॒पां खान्य᳚तृन्त॒मोज॒सा सूर्य᳚मैरयतं दि॒वि प्र॒भुम् ।
इन्द्रा᳚वरुणा॒ मदे᳚ अस्य मा॒यिनो॑पि᳚न्वतम॒पित॒ः पिन्व᳚तं॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । अ॒पाम् । खानि᳚ । अ॒तृ॒न्त॒म् । ओज᳚सा । आ । सूर्य᳚म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒॑भुम् ।
इन्द्रा᳚वरुणा । मदे᳚ । अ॒स्य॒ । मा॒यिनः᳚ । अपि᳚न्वतम् । अ॒पितः᳚ । पिन्व᳚तम् । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ अपामुदकानां खानि द्वाराणि वृत्रेण पिहितानि ओजसा बलेन अन्वतृन्तं अन्वविध्यतं आवरकस्य वृत्रस्य वधेन वृष्टिप्रतिबन्धं निराकृतवन्तावित्यर्थः तथा सूर्यं सर्वस्य प्रेरकमादित्यं दिव्यंतरिक्षे प्रभुं प्रभूतं सन्तं ऎरयतं अभ्यगमयतम् स्वर्भानुना वृतं सूर्यं तद्वधेन प्रकाशितवन्तावित्यर्थः हे इन्द्रावरुणा इन्द्रावरुणौ मायिनः प्रज्ञाकरस्य अस्यसोमस्य पानेन मदे हर्षेसति अपितः जल- रहितानदीः अपिन्वतं जलेनापूरयतम् । तथाच निवित्पदमाम्नायतेअस्यमदेजरितरिंद्रोजिन्वदजुवोपिन्वदपितइति । अपिच धियः कर्माण्यस्माभिर्नुष्ठितानि कर्माणि पिन्वतं सिञ्चतं फलेन पूरयतम् ॥ ३ ॥