सप्तमं मण्डलम् - सूक्तम् 57

7 ऋचः

ऋषिः: वसिष्ठः देवता: मरुतः छन्दः: त्रिष्टुप्

सूक्तम् 7.57 - सम्पूर्णम्

1 / 7
ऋक्: 7.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.57.1
मध्वो᳚ वो॒ नाम॒ मारु᳚तं यजत्रा॒ः प्र य॒ज्ञेषु॒ शव᳚सा मदन्ति ।
ये रे॒जय᳚न्ति॒ रोद᳚सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया᳚सुरु॒ग्राः ॥
▶ पदपाठः (Word-by-word)
मध्वः᳚ । वः॒ । नाम᳚ । मारु᳚तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु᳚ । शव᳚सा । म॒द॒न्ति॒ ।
ये । रे॒जय᳚न्ति । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । पिन्व᳚न्ति । उत्स᳚म् । यत् । अया᳚सुः । उ॒ग्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजत्रा यजनीयामरुतः वोयुप्मदीयं मारुतं मरुत्संबन्धि नाम नामधेयं मध्वो मधवो मादयितारः स्तोतारः यज्ञेषु यागेषु शवसा बलेन प्रमदन्ति प्रकर्षेण स्तुवन्ति उच्चैः स्तुवन्तीत्यर्थः । ये मरुतः उर्वी विस्तीर्णे रोदसी चित् द्यावापृथिव्यावपि रेजयन्ति कंपयन्ति । किंच उत्सं मेघं पिन्वन्ति वर्षयन्ति उग्रा उद्गूर्णा यत् ये मरुतः आयासुः यान्ति सर्वत्रगच्छंति तेषां मरुतां यष्माकं नाम प्रमदन्तीति पूर्वेणान्वयः ॥ १ ॥

7.57.2
नि॒चे॒तारो॒ हि म॒रुतो᳚ गृ॒णन्तं᳚ प्रणे॒तारो॒ यज᳚मानस्य॒ मन्म᳚ ।
अ॒स्माक᳚म॒द्य वि॒दथे᳚षु ब॒र्हिरा वी॒तये᳚ सदत पिप्रिया॒णाः ॥
▶ पदपाठः (Word-by-word)
नि॒॑चे॒तारः᳚ । हि । म॒रुतः᳚ । गृ॒णन्त᳚म् । प्र॒॑ने॒तारः᳚ । यज᳚मानस्य । मन्म᳚ ।
अ॒स्माक᳚म् । अ॒द्य । वि॒दथे᳚षु । ब॒र्हिः । आ । वी॒तये᳚ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः गृणंतं स्तुवन्तं जनं निचेतारोहि मृगयमाणाभदन्ति खलु । अपिच यजमानस्य मन्म अभिमतं कामं प्रणेतारश्च भवन्ति । अपरो- र्धर्चः प्रत्यक्षकृतः हे मरुतोयूयं पिप्रियाणाः प्रीयमाणाः सन्तः अद्यास्मिन्दिवसे अस्माकं विदथेषु यज्ञेषु वीतये सोमस्य भक्षणाय बर्हिः बर्हिंषि कुशमये आसदत आसीदत उपविशत ॥ २ ॥

7.57.3
नैताव᳚द॒न्ये म॒रुतो॒ यथे॒मे भ्राज᳚न्ते रु॒क्मैरायु᳚धैस्त॒नूभि᳚ः ।
आ रोद᳚सी विश्व॒पिशः᳚ पिशा॒नाः स᳚मा॒नम॒ञ्ज्य᳚ञ्जते शु॒भे कम् ॥
▶ पदपाठः (Word-by-word)
न । ए॒ताव᳚त् । अ॒न्ये । म॒रुतः᳚ । यथा᳚ । इ॒मे । भ्राज᳚न्ते । रु॒क्मैः । आयु᳚धैः । त॒नूभिः᳚ ।
आ । रोद᳚सी॒ इति᳚ । वि॒श्व॒॑पिशः᳚ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे ईदृशामरुतोयथायत्परिमाणं धनादिकं ददति अन्ये मरुव्द्यतिरिक्तादेवाः एतावद्धनादिकं नदद्युरित्यर्थः । तेच रुक्मैः रोचमानैरयुधै- राभरणैः स्वकीयास्त्रैः तनूभिरात्मीयैः केवलैरंगैश्च भ्राजन्ते सर्वदा भासन्ते । कश्चिदेकवाक्यतामाह यथेमे मरुतोरुक्मादिभिः भ्राजन्ते नैतावदेतव्द्यतिरिक्ताभ्राजन्तइति । अपिच रोदसी द्यावापृथिव्यौ पिशानाः प्रकाशयन्तः विश्वपिशः व्याप्तदीप्तयः एवंभूतामरुतः शुभे शोभायै समानं सदृशरूपं अंजि आभरणं आ अंजते स्वकीयावयवेषु अभिव्यक्तीकुर्वन्ति । कमितिपूरणः ॥ ३ ॥

7.57.4 समानपद
ऋध॒क्सा वो᳚ मरुतो दि॒द्युद᳚स्तु॒ यद्व॒ आगः᳚ पुरु॒षता॒ करा᳚म ।
मा व॒स्तस्या॒मपि᳚ भूमा यजत्रा अ॒स्मे वो᳚ अस्तु सुम॒तिश्चनि᳚ष्ठा ॥
▶ पदपाठः (Word-by-word)
ऋध᳚क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः᳚ । पु॒रु॒षता᳚ । करा᳚म ।
मा । वः॒ । तस्या᳚म् । अपि᳚ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति᳚ । वः॒ । अ॒स्तु॒ । सु॒॑म॒तिः । चनि᳚ष्ठा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वोयुष्मदीया सा प्रसिद्धा दिद्युत् हेतिरृधगस्तु अस्मत्तः पृथग्भवतु यत् यद्यपि वयं वोयुष्माकं आगः अपराधं पुरुषता पुरुषतया मनुष्यत्वेन कराम करवाम मनुष्याणां हि प्रमादः सुलभइत्यर्थः । हे यजत्रा यजनीयामरुतः वोयुष्मदीयायां तस्यां दिद्युति अपि ईषदपि माभूम चनिष्ठा अन्नवत्तमा अतिशयेनान्नदाइत्यर्थः वोयुष्मदीया सुमतिरनुग्रहबुद्धिः अस्मे अस्मास्वस्तु ॥ ४ ॥

7.57.5
कृ॒ते चि॒दत्र᳚ म॒रुतो᳚ रणन्तानव॒द्यास॒ः शुच᳚यः पाव॒काः ।
प्र णो᳚॑वत सुम॒तिभि᳚र्यजत्रा॒ः प्र वाजे᳚भिस्तिरत पु॒ष्यसे᳚ नः ॥
▶ पदपाठः (Word-by-word)
कृ॒ते । चि॒त् । अत्र᳚ । म॒रुतः᳚ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः᳚ । शुच᳚यः । पा॒व॒काः ।
प्र । नः॒ । अ॒व॒त॒ । सु॒म॒ति॑भिः᳚ । य॒ज॒त्राः॒ । प्र । वाजे᳚भिः । ति॒र॒त॒ । पु॒ष्यसे᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्कृते चित् अस्मदीये यज्ञकर्मण्येव मरुतोरणन्त रमन्ताम् । कीदृशामरुतः अनवद्यासः अनिंदिताः शुचयोदीप्तियुक्ताः पावकाः शो- धकाः एवंभूताइति । किंच हेमरुतः यजत्राः यजनीया यूयं नोस्मान् सुमतिभिरनुग्रहबुद्धिभिः सुष्टुतिभिर्हेतुभिर्वा प्रावत प्रकर्षेण पालयत तथा नोस्मान्वाजेभिर्वाजैरन्नैः पुष्यसे पोष्यार्थं प्रतिरत प्रवर्धयत ॥ ५ ॥

7.57.6 समानपद
उ॒त स्तु॒तासो᳚ म॒रुतो᳚ व्यन्तु॒ विश्वे᳚भि॒र्नाम᳚भि॒र्नरो᳚ ह॒वींषि᳚ ।
ददा᳚त नो अ॒मृत᳚स्य प्र॒जायै᳚ जिगृ॒त रा॒यः सू॒नृता᳚ म॒घानि᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्तु॒तासः᳚ । म॒रुतः᳚ । व्य॒न्तु॒ । विश्वे᳚भिः । नाम᳚॑भिः । नरः᳚ । ह॒वींषि᳚ ।
ददा᳚त । नः॒ । अ॒मृत᳚स्य । प्र॒॑जायै᳚ । जि॒गृ॒त । रा॒यः । सू॒नृता᳚ । म॒घानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच स्तुतासः एवमस्मभिः स्तुताः मरुतः हवींषि व्यन्तु भक्षयन्तु कीदृशाः विश्वेभिर्विश्वैः नामभिरुदकैः सहिता नरोनेतारः । शेषः प्रत्यक्षकृतः हे मरुतः नोस्मदीयायै प्रजायै संततये अमृतस्य अमृतमुदकं ददात दत्त तथा हविषोदातुर्यजमानस्य सूनृता सूनृतानि सुष्ठु नृत्यन्ति शोभनयोगानि मघानि धनानि रायः जिगृत उद्गिरत प्रयच्छतेत्यर्थः ॥ ६ ॥

7.57.7
आ स्तु॒तासो᳚ मरुतो॒ विश्व᳚ ऊ॒ती अच्छा᳚ सू॒रीन्त्स॒र्वता᳚ता जिगात ।
ये न॒स्त्मना᳚ श॒तिनो᳚ व॒र्धय᳚न्ति यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । स्तु॒तासः᳚ । म॒रु॒तः॒ । विश्वे᳚ । ऊ॒ती । अच्छ᳚ । सू॒रीन् । स॒र्व॑ता᳚ता । जि॒गा॒त॒ ।
ये । नः॒ । त्मना᳚ । श॒तिनः᳚ । व॒र्धय᳚न्ति । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः स्तुतासः एवमस्माभिः स्तुताः विश्वे सर्वे यूयंऊती ऊत्या रक्षया सहिताः सूरीन् स्तोतॄन् अच्छभिलक्ष्य सर्वताता सर्वतातौ यज्ञे आजिगात आगच्छत ये मरुतः त्मना आत्मनैव नोस्मान् शतिनः शतसंख्याकान् वर्धयन्ति यथा वयं पुत्रपौत्रादिभिः शतिनोभवेम तथा- वर्धयन्तीत्यर्थः ते यूयमाजिगातेति पूर्वेणसंबंधः एवंभूतामरुतोयूयं सर्वदास्मान् पालयत ॥ ७ ॥

प्रसाकमुक्षेति षळृचं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकं अनुक्रान्तंच-प्रसाकमुक्षेषळिति । गतोविनियोगः ।