सप्तमं मण्डलम् - सूक्तम् 44

5 ऋचः

ऋषिः: वसिष्ठः देवता: लिङ्गोक्तदेवताः छन्दः: जगती

सूक्तम् 7.44 - सम्पूर्णम्

1 / 5
ऋक्: 7.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.44.1
द॒धि॒क्रां वः᳚ प्रथ॒मम॒श्विनो॒षस᳚म॒ग्निं समि᳚द्धं॒ भग᳚मू॒तये᳚ हुवे ।
इन्द्रं॒ विष्णुं᳚ पू॒षणं॒ ब्रह्म᳚ण॒स्पति᳚मादि॒त्यान्द्यावा᳚पृथि॒वी अ॒पः स्व᳚ः ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना᳚ । उ॒षस᳚म् । अ॒ग्निम् । सम्॑इ᳚द्धम् । भग᳚म् । ऊ॒तये᳚ । हु॒वे॒ ।
इन्द्र᳚म् । विष्णु᳚म् । पू॒षण᳚म् । ब्रह्म᳚णः । पति᳚म् । आ॒दि॒त्यान् । द्यावा᳚पृथि॒वी इति᳚ । अ॒पः । स्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारोवोयुष्माकं ऊतये रक्षणाय प्रथमं दधिक्रां अश्वाभिमानिनीं देवतां हुवे आह्वयामि ततः अश्विना अश्विनौ देवौ उषसमुषो- देवतांच समिद्धं सम्यग्दीप्तमग्निंच भगं एतदाख्यं देवं च आह्वयामि इन्द्रं विष्णुं पूषणं च ब्रह्मणस्पतिं आदित्यान् द्यावापृथिवी अपः उदकदेवताः स्वः सूर्यं इत्येतान् देवानाह्वयामि ॥ १ ॥

7.44.2
द॒धि॒क्रामु॒ नम᳚सा बो॒धय᳚न्त उ॒दीरा᳚णा य॒ज्ञमु᳚पप्र॒यन्त᳚ः ।
इळां᳚ दे॒वीं ब॒र्हिषि᳚ सा॒दय᳚न्तो॒॑श्विना॒ विप्रा᳚ सु॒हवा᳚ हुवेम ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राम् । ऊं॒ इति᳚ । नम᳚सा । बो॒धय᳚न्तः । उ॒त्॑ईरा᳚णाः । य॒ज्ञम् । उ॒प॒॑प्र॒यन्तः᳚ ।
इळा᳚म् । दे॒वीम् । ब॒र्हिषि᳚ । सा॒दय᳚न्तः । अ॒श्विना᳚ । विप्राः᳚ । सु॒॑हवा᳚ । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्रां एतन्नामकं अश्वविशेषं देवं नमसा स्तोत्रेण बोधयन्तः प्रज्ञापयन्तः उदीराणाः प्रेरयन्तः यज्ञं यागं उपप्रयन्तः उपक्रममाणा वयं बर्हिषि इळां हवीरूपां देवीं सादयन्तः आस्थापयन्तः सुहवा शोभनाह्वानौ विप्रा विप्रौ मेधाविनौ अश्विना अश्विनौ देवौ हुवेम आह्वयाम उइति पूरणः ॥ २ ॥

7.44.3
द॒धि॒क्रावा᳚णं बुबुधा॒नो अ॒ग्निमुप᳚ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् ।
ब्र॒ध्नं मां᳚श्च॒तोर्वरु᳚णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु᳚रि॒ता या᳚वयन्तु ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्रावा᳚णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप᳚ । ब्रु॒वे॒ । उ॒षस᳚म् । सूर्य᳚म् । गाम् ।
ब्र॒ध्नम् । मं॒श्च॒तोः । वरु᳚णस्य । ब॒भ्रुम् । ते । विश्वा᳚ । अ॒स्मत् । दुः॒॑इ॒ता । य॒व॒य॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्रावाणं अश्वविशेषं बुबुधानः स्तोत्रेण बोधयन्नहं अग्निं देवं उपब्रुवे उपस्तौमि तथा च उषसमुषोदेवतां सूर्यं सर्वस्य प्रेरकं देवं गां भूमिं वाग्देवतां वा एवं भूतान् देवान् अहमुपस्तौमि मंश्चतोः मन्यमानान् स्तुवतोजनान् चेतयते जानातीति यद्वा अभिमन्यमानांश्चात- यते नाशयतीति मंश्चतुः तस्य वरुणस्य ब्रध्नं महान्तं बभ्रुं पिंगलवर्णमश्वं तस्यानयनार्थमहमुपब्रुवे ते देवाः अस्मदस्मत्तः विश्वा विश्वानि सर्वाणि दुरिता दुरितानि पापानि यवयन्तु पृथक्कुर्वन्तु ॥ ३ ॥

7.44.4
द॒धि॒क्रावा᳚ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा᳚नां भवति प्रजा॒नन् ।
सं॒वि॒दा॒न उ॒षसा॒ सूर्ये᳚णादि॒त्येभि॒र्वसु᳚भि॒रङ्गि᳚रोभिः ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्रावा᳚ । प्र॒थ॒मः । वा॒जी । अर्वा᳚ । अग्रे᳚ । रथा᳚नाम् । भ॒व॒ति॒ । प्र॒॑जा॒नन् ।
स॒म्॑वि॒दा॒नः । उ॒षसा᳚ । सूर्ये᳚ण । आ॒दि॒त्येभिः᳚ । वसु᳚॑भिः । अङ्गि᳚रः॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमः सर्वेषामश्वानांमुख्यः वाजी शीघ्रगामी अर्वा गमनशीलः दधिक्रावा अश्वरूपो देवः प्रजानन् रतसंयंजनीयांस्तांस्तानश्वानधिष्ठाय ज्ञातव्यानि सम्यक् जानन् रथानामग्ने प्रमुखोभवति कीदृशोश्वः उषसा उषोदेवतया सूर्येण सर्वस्य प्रेरकेण देवेन आदित्येभिरादित्यै- श्च वसुभिश्च अंगिरोभिर्देवैः सह स्तोतव्यैरृषिभिश्च संविदानः सम्यक् जानन् ऎकमत्यं प्राप्तइत्यर्थः ॥ ४ ॥

7.44.5 समानपद
आ नो᳚ दधि॒क्राः प॒थ्या᳚मनक्त्वृ॒तस्य॒ पन्था॒मन्वे᳚त॒वा उ᳚ ।
शृ॒णोतु᳚ नो॒ दैव्यं॒ शर्धो᳚ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे᳚ महि॒षा अमू᳚राः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । द॒धि॒॑क्राः । प॒थ्या᳚म् । अ॒न॒क्तु॒ । ऋ॒तस्य᳚ । पन्था᳚म् । अनु᳚॑ए॒त॒वै । ऊं॒ इति᳚ ।
शृ॒णोतु᳚ । नः॒ । दैव्य᳚म् । शर्धः᳚ । अ॒ग्निः । शृ॒ण्वन्तु᳚ । विश्वे᳚ । म॒हि॒षाः । अमू᳚राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्राः अश्वरूपोदेवः ऋतस्य यज्ञस्य पंथां पंथानं मार्गं अन्वेतवै अनुगन्तुं प्रवृत्तानां नोस्माकं पथ्यां पदवीमानक्तु उदकेनासिंचतु उइतिपूरणः दैव्यं शर्धः देवसंबन्धिबलं ईदृग्रूपोग्निः नोस्मदीयं हवंशृणोतु अमूराः अमूढाः महिषा महान्तः विश्वे सर्वे देवाः अस्मदीयं हवं शृण्वन्तु ॥ ५ ॥

आदेवोयात्विति चतुरृचं द्वादशं सूक्तं वसिष्ठस्यार्षं सबितृदेवताकं त्रैष्टुभं आदेवश्चतुष्कं साबित्रमित्यनुक्रान्तम् । व्यूह्ळेदशरात्रे चतुर्थे- हनि वैश्वदेवशस्त्रे इदंसवित्रनिविद्धानं सूत्र्यतेहिचतुर्थेहन्यादेवोयात्विति । एषा वपानुवाक्या सूत्रितंच-आदेवोयातुसवितासुरत्नः सघानोदेवः सवितासहावेति । अश्वमेधे अनुसवनं तिस्रः सावित्र्यइष्टयः तत्रद्वितीयस्यामिष्टौ याज्येमं सूत्रितंच-यइमाविश्वाजातान्या- देवोयात्विति ।