श्रवणम्

7.44.3
द॒धि॒क्रावा᳚णं बुबुधा॒नो अ॒ग्निमुप᳚ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् ।
ब्र॒ध्नं मां᳚श्च॒तोर्वरु᳚णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु᳚रि॒ता या᳚वयन्तु ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्रावा᳚णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप᳚ । ब्रु॒वे॒ । उ॒षस᳚म् । सूर्य᳚म् । गाम् ।
ब्र॒ध्नम् । मं॒श्च॒तोः । वरु᳚णस्य । ब॒भ्रुम् । ते । विश्वा᳚ । अ॒स्मत् । दुः॒॑इ॒ता । य॒व॒य॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्रावाणं अश्वविशेषं बुबुधानः स्तोत्रेण बोधयन्नहं अग्निं देवं उपब्रुवे उपस्तौमि तथा च उषसमुषोदेवतां सूर्यं सर्वस्य प्रेरकं देवं गां भूमिं वाग्देवतां वा एवं भूतान् देवान् अहमुपस्तौमि मंश्चतोः मन्यमानान् स्तुवतोजनान् चेतयते जानातीति यद्वा अभिमन्यमानांश्चात- यते नाशयतीति मंश्चतुः तस्य वरुणस्य ब्रध्नं महान्तं बभ्रुं पिंगलवर्णमश्वं तस्यानयनार्थमहमुपब्रुवे ते देवाः अस्मदस्मत्तः विश्वा विश्वानि सर्वाणि दुरिता दुरितानि पापानि यवयन्तु पृथक्कुर्वन्तु ॥ ३ ॥