आ वो॒॑र्वाच॒ः क्रत᳚वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं᳚ वर्तयन्तु ॥
पदपाठः (Word-by-word)
आ । वः॒ । अ॒र्वाचः᳚ । क्रत᳚वः । न । या॒ताम् । वि॑भ्वः᳚ । रथ᳚म् । नर्य᳚म् । व॒र्त॒य॒न्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
ऋभुक्षाइति ऋभूणां ज्येष्ठस्याख्या वाजइतितु कनिष्ठस्य अत्र ऋभुक्षणोवाजाइति बहुवचनेन ऋभवस्त्रयोगृह्यन्ते हे ऋभुक्षणोवाजा नरोनेतारः मघवानोधनवन्तः एवंभूताहेऋभवः यूयं अस्मे अस्मासु स्थितेन सुतस्याभिषुतेन सोमेन मादयध्वं तृप्ताभवत नेतिसंप्रत्यर्थे इदानीं यातां गच्छतां वोयुष्मदीयाः क्रतवः कर्मणां कर्तारः विभ्वः विभवः समर्थाअश्वाः अर्वाचोर्वांचः अस्मदभिमुखाः सन्तः नर्यं मनु- ष्यहितं रथं युष्मदीयं आवर्तयन्तु आगमयन्तु ॥ १ ॥