नू दे᳚वासो॒ वरि᳚वः कर्तना नो भू॒त नो॒ विश्वे॑व᳚से स॒जोषा᳚ः ।
सम॒स्मे इषं॒ वस᳚वो ददीरन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
सम॒स्मे इषं॒ वस᳚वो ददीरन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
नु । दे॒वा॒सः॒ । वरि᳚वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे᳚ । अव᳚से । स॒॑जोषाः᳚ ।
सम् । अ॒स्मे इति᳚ । इष᳚म् । वस᳚वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सम् । अ॒स्मे इति᳚ । इष᳚म् । वस᳚वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवासोदेवाः द्योतमानाऋभवोयूयं नु अद्य नोस्मभ्यं वरिवोधनं कर्तन कुरुत प्रयच्छत तथा विश्वे सर्वे ऋभवोयूयं सजोषाः सहप्रीय- माणाः सन्तः नोस्माकं अवसे रक्षणाय भूत भवत । अपिच वसवः प्रशस्याऋभवः इषमन्नं अस्मे अस्मभ्यं संददीरन् संप्रयच्छेयुः हेऋभ- वोयूयं अस्मान् सर्वदा कल्याणैः रक्षत ॥ ४ ॥
समुद्रज्येष्ठाइति चतुरृचं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकं तथाचानुक्रान्तं-समुद्रज्येष्ठाआपमिति गतोविनियोगः ।