ते चि॒द्धि पू॒र्वीर॒भि सन्ति᳚ शा॒सा विश्वा{4}᳚ अ॒र्य उ᳚प॒रता᳚ति वन्वन् ।
इन्द्रो॒ विभ्वा{4}᳚ ऋभु॒क्षा वाजो᳚ अ॒र्यः शत्रो᳚र्मिथ॒त्या कृ᳚णव॒न्वि नृ॒म्णम् ॥
इन्द्रो॒ विभ्वा{4}᳚ ऋभु॒क्षा वाजो᳚ अ॒र्यः शत्रो᳚र्मिथ॒त्या कृ᳚णव॒न्वि नृ॒म्णम् ॥
पदपाठः (Word-by-word)
ते । चि॒त् । हि । पू॒र्वीः । अ॒भि । सन्ति᳚ । शा॒सा । विश्वा᳚न् । अ॒र्यः । उ॒प॒र॑ता᳚ति । व॒न्व॒न् ।
इन्द्रः᳚ । वि॑भ्वा᳚ । ऋ॒भु॒क्षाः । वाजः᳚ । अ॒र्यः । शत्रोः᳚ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥
इन्द्रः᳚ । वि॑भ्वा᳚ । ऋ॒भु॒क्षाः । वाजः᳚ । अ॒र्यः । शत्रोः᳚ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥
सायणभाष्यम् (Sayana Commentary)
तेतादृशा इन्द्रऋभवश्च पूर्वीर्बह्वीः अस्मच्छत्रुसेनाः शासा शासनेन स्वकीयया आज्ञया यद्वा विशस्यते हिंस्यतेनेनेति शासशब्दआयुध- वाची तेन अभिसन्ति अभिभवन्ति चिद्धीतीमौ पूरणौ किंच उपरताति सप्तम्यालुक् उपरैरुपलैः पाषाणसदृशैरायुधैः स्तायते विस्तार्य- इत्युपरताति युद्धं तस्मिन् विश्वान् समस्तान् अर्यअरीन् शत्रून् वन्वन् हिंसन्ति विभ्वाऋभुक्षा वाजः एतत्संज्ञकाऋभवश्चेन्द्रश्च अर्यः शत्रूणामभिगन्तारः सन्तः शत्रोः संबन्धिनृम्णं बलं मिथत्या मिथतेरिदं रूपं मिथतिर्हिसा तया विकृण्वन् विकुर्वन्तु विनाशयन्त्वित्यर्थः ॥ ३ ॥