श्रवणम्

7.48.2
ऋ॒भुरृ॒भुभि᳚र॒भि वः᳚ स्याम॒ विभ्वो᳚ वि॒भुभि॒ः शव᳚सा॒ शवां᳚सि ।
वाजो᳚ अ॒स्मा{4} अ᳚वतु॒ वाज᳚साता॒विन्द्रे᳚ण यु॒जा त᳚रुषेम वृ॒त्रम् ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । ऋ॒भु॑भिः᳚ । अ॒भि । वः॒ । स्या॒म॒ । वि॑भ्वः᳚ । वि॒भु॑भिः᳚ । शव᳚सा । शवां᳚सि ।
वाजः᳚ । अ॒स्मान् । अ॒व॒तु॒ । वाज᳚॑सातौ । इन्द्रे᳚ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवः ऋभुभिःयुष्माभिः वयं ऋभुः उरुभवन्तीत्यृभवः सन्तः विभुभिर्युष्माभिः विभ्वोविभवश्च सन्तः शवांसि शत्रूणां बलानि वः शवसा युष्मदीयेन बलेन अभिस्याम अभिभवेम तथा वाजसातौ संग्रामे वाजः एतत्संज्ञकऋभुः अस्मानवतु पालयतु अपिच युजा सहायभूतेनेन्द्रेण वृत्रं शत्रुं वयं तरुषेम हनाम प्रायेण ऋभवोपीन्द्रेणसहस्तूयन्ते इति ॥ २ ॥