सप्तमं मण्डलम् - सूक्तम् 84

5 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 7.84 - सम्पूर्णम्

1 / 5
ऋक्: 7.84.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
7.84.1
आ वां᳚ राजानावध्व॒रे व᳚वृत्यां ह॒व्येभि᳚रिन्द्रावरुणा॒ नमो᳚भिः ।
प्र वां᳚ घृ॒ताची᳚ बा॒ह्वोर्दधा᳚ना॒ परि॒ त्मना॒ विषु᳚रूपा जिगाति ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रा॒जा॒नौ॒ । अ॒ध्व॒रे । व॒वृ॒त्या॒म् । ह॒व्येभिः᳚ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः᳚॑भिः ।
प्र । वा॒म् । घृ॒ताची᳚ । बा॒ह्वोः । दधा᳚ना । परि᳚ । त्मना᳚ । विषु᳚॑रूपा । जि॒गा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजानौ राजमानौ ईश्वरौवा इन्द्रावरुणौ अध्वरे हिंसारहितेस्मिन्यागे वां युवां हव्येभिर्हविर्भिर्नमोभिः स्तोत्रैश्च आववृत्यां आवर्त- यामि अपिच बाह्वोर्हस्तयोर्दधाना धार्यमाणा विषुरूपा रूप्यतइति रूपं हविः विविधहविर्युक्ता घृताची घृतमञ्चन्ती जुहू त्मना आत्म- ना स्वयमेव वां युवां परि प्रजिगाति अभिप्रगच्छति यद्वा विषुरूपा नानाविधरूपौ वामिति योज्यम् ॥ १ ॥

7.84.2
यु॒वो रा॒ष्ट्रं बृ॒हदि᳚न्वति॒ द्यौर्यौ से॒तृभि᳚रर॒ज्जुभि᳚ः सिनी॒थः ।
परि᳚ नो॒ हेळो॒ वरु᳚णस्य वृज्या उ॒रुं न॒ इन्द्र᳚ः कृणवदु लो॒कम् ॥
▶ पदपाठः (Word-by-word)
यु॒वोः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृ॑भिः᳚ । अ॒र॒ज्जु॑भिः᳚ । सि॒नी॒थः ।
परि᳚ । नः॒ । हेळः᳚ । वरु᳚णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः᳚ । कृ॒ण॒व॒त् । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ युवोर्युवयोः बृहन्महत् राष्ट्रं राज्यं द्यौः द्युलोकरूपं इन्वति वृष्ट्या सर्वान् प्रीणयति यौ युवां सेक्तृभिर्बन्धकैः अरज्जुभिः रज्जुरहितैः रोगादिभिः सिनीथः पापकृतोबध्नीथः षिञ् बन्धने इतिधातुः तयोर्मध्ये वरुणस्य वारयितुर्देवस्य हेळः क्रोधः नोस्मान्परिवृ- ज्याः परिवृणक्तु परित्यज्यान्यत्रगच्छतु । इन्द्रउ इन्द्रश्च उरुं विस्तीर्णं लोकं स्थानं कृणवत्करोतु ॥ २ ॥

7.84.3
कृ॒तं नो᳚ य॒ज्ञं वि॒दथे᳚षु॒ चारुं᳚ कृ॒तं ब्रह्मा᳚णि सू॒रिषु᳚ प्रश॒स्ता ।
उपो᳚ र॒यिर्दे॒वजू᳚तो न एतु॒ प्र णः᳚ स्पा॒र्हाभि᳚रू॒तिभि᳚स्तिरेतम् ॥
▶ पदपाठः (Word-by-word)
कृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे᳚षु । चारु᳚म् । कृ॒तम् । ब्रह्मा᳚णि । सू॒रिषु᳚ । प्र॒॑श॒स्ता ।
उपो॒ इति᳚ । र॒यिः । दे॒व॑जू᳚तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः᳚ । ऊ॒ति॑भिः᳚ । ति॒रे॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ नोस्माकं विदथेषु गृहेषु क्रियमाणं यज्ञं चारुं शोभनं फलसहितं कृतं कुरुतम् तथा सूरिषु स्तोतृष्वस्मासु विद्यमानानि ब्रह्माणि परिवृढानि स्तोत्राणि प्रशस्ता प्रशस्तानि उत्कृष्टानि कृतं कुरुतम् । अपिच देवजूतः देवाभ्यां युवाभ्यां प्रेरितोरयिर्धनं नोस्मानुपैतु प्राप्नोतु तथा स्पार्हाभिः स्पृहणीयाभिरूतिभिः रक्षाभिर्नोस्मान् प्रतिरेतं युवां वर्धयेथाम् प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ३ ॥

7.84.4
अ॒स्मे इ᳚न्द्रावरुणा वि॒श्ववा᳚रं र॒यिं ध᳚त्तं॒ वसु᳚मन्तं पुरु॒क्षुम् ।
प्र य आ᳚दि॒त्यो अनृ᳚ता मि॒नात्यमि᳚ता॒ शूरो᳚ दयते॒ वसू᳚नि ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्व॑वा᳚रम् । र॒यिम् । ध॒त्त॒म् । वसु᳚॑मन्तम् । पु॒रु॒॑क्षुम् ।
प्र । यः । आ॒दि॒त्यः । अनृ᳚ता । मि॒नाति᳚ । अमि᳚ता । शूरः᳚ । द॒य॒ते॒ । वसू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ अस्मे अस्मभ्यं रयिं धनं धत्तं प्रयच्छतम् कीदृशं विश्ववारं विश्वैः सर्वैर्वरणीयं संभजनीयं वसुमन्तं निवासयुक्तं पुरुक्षुं बह्वन्नं पुरुभिर्बहुभिः प्रशस्यं वा आदित्यः अदितेः पुत्रोयोवरुणः अनृता अनृतानि सत्यरहितानि भूतानि प्रमिनाति प्रहिनस्ति मीञ् हिंहिंसायामितिधातुः शूरः शौर्यवान् सवरुणः अमिता अमितानि अपरिमितानि वसूनि धनानि दयते स्तोतृभ्योददाति ॥ ४ ॥

7.84.5
इ॒यमिन्द्रं॒ वरु᳚णमष्ट मे॒ गीः प्राव᳚त्तो॒के तन᳚ये॒ तूतु᳚जाना ।
सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । इन्द्र᳚म् । वरु᳚णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन᳚ये । तूतु᳚जाना ।
सु॒॑रत्ना᳚सः । दे॒व॑वी᳚तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मदीया इयं गीः स्तुतिः इन्द्रं वरुणंच अष्ट अश्नुतां व्याप्नोतु तथा तूतुजाना मयाप्रेर्यमाणा सा तोके पुत्रे तनये पौत्रे च विषये प्रावत् प्ररक्षत्वस्मान् वयञ्च सुरत्नासः शोभनधनाः सन्तोदेववीतिं देवैः कामयितव्यं यज्ञं गमेम प्रप्नुयाम । हे इन्द्रावरुणादयः सर्वेदेवाः यूयं स्वतिभिः कल्याणैर्नोस्मान्सदा सर्वदा पात रक्षत ॥ ५ ॥

पुनीषेवामिति पंचर्चं पञ्चदशं सूक्तं वसिष्ठस्याषं त्रैष्टुभमैन्द्रावरुणं पुनीषइत्यनुक्रान्तम् । आभिप्लविकेयूक्थ्येषु तृतीयसवने स्तोम- वृद्धौ प्रशस्तुः इदमावापार्थं सूत्रितंच-युवांनरापुनीषेवामिति ।