श्रवणम्

7.84.3
कृ॒तं नो᳚ य॒ज्ञं वि॒दथे᳚षु॒ चारुं᳚ कृ॒तं ब्रह्मा᳚णि सू॒रिषु᳚ प्रश॒स्ता ।
उपो᳚ र॒यिर्दे॒वजू᳚तो न एतु॒ प्र णः᳚ स्पा॒र्हाभि᳚रू॒तिभि᳚स्तिरेतम् ॥
▶ पदपाठः (Word-by-word)
कृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे᳚षु । चारु᳚म् । कृ॒तम् । ब्रह्मा᳚णि । सू॒रिषु᳚ । प्र॒॑श॒स्ता ।
उपो॒ इति᳚ । र॒यिः । दे॒व॑जू᳚तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः᳚ । ऊ॒ति॑भिः᳚ । ति॒रे॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ नोस्माकं विदथेषु गृहेषु क्रियमाणं यज्ञं चारुं शोभनं फलसहितं कृतं कुरुतम् तथा सूरिषु स्तोतृष्वस्मासु विद्यमानानि ब्रह्माणि परिवृढानि स्तोत्राणि प्रशस्ता प्रशस्तानि उत्कृष्टानि कृतं कुरुतम् । अपिच देवजूतः देवाभ्यां युवाभ्यां प्रेरितोरयिर्धनं नोस्मानुपैतु प्राप्नोतु तथा स्पार्हाभिः स्पृहणीयाभिरूतिभिः रक्षाभिर्नोस्मान् प्रतिरेतं युवां वर्धयेथाम् प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ३ ॥