ते वा॒यवे॒ मन᳚वे बाधि॒तायावा᳚सयन्नु॒षसं॒ सूर्ये᳚ण ॥
पदपाठः (Word-by-word)
ते । वा॒यवे᳚ । मन᳚वे । बा॒धि॒ताय᳚ । अवा᳚सयन् । उ॒षस᳚म् । सूर्ये᳚ण ॥
सायणभाष्यम् (Sayana Commentary)
दीव्यंति स्तुवन्तीति देवाः स्तोतारः पुरा पूर्वस्मिन्काले ये वृद्धासो वृद्धादेवाः स्तोतारः कुविदिति बहुनाम अङ्गेति क्षिप्र नाम कुवि- द्बहुशः अङ्ग क्षिप्रं कृतेन नमसा वायुविषयेण स्तोत्रेण नमस्कारेण वा अनवद्यासः अवद्यरहिताः आसन् तेद्यापि वायवे हवींषि दातुं सूर्येण सह उषसं अवासयन् उषसो वृष्टिं सूर्योदयञ्च वायुयागार्थं कुर्वन्तीत्यर्थः । किमर्थं मनवे मनुष्याणां बाधिताय बाधितानां पुत्रा- दीनां रक्षणार्थमित्यर्थः यद्वा मनवे बाधितायेति षष्ठ्यर्थे चतुर्थी बाधितस्य मनोः प्रजापतेर्यागे वायवे हवींषि दातुमित्यन्वयः ॥ १ ॥ द्वितीये छन्दोमे प्रउगशस्त्रे ऎन्द्रवायवतृचस्य उशन्तेत्येषा प्रथमा सूत्रितञ्च-उशन्तादूतानदभायगोपायावत्तरस्तन्वोयावदोजइत्ये- काद्वेचेति ।