श्रवणम्

7.91.3
पीवो᳚अन्ना{4} रयि॒वृधः᳚ सुमे॒धाः श्वे॒तः सि᳚षक्ति नि॒युता᳚मभि॒श्रीः ।
ते वा॒यवे॒ सम᳚नसो॒ वि त᳚स्थु॒र्विश्वेन्नरः᳚ स्वप॒त्यानि᳚ चक्रुः ॥
▶ पदपाठः (Word-by-word)
पीवः᳚॑अन्नान् । र॒यि॒॑वृधः᳚ । सु॒॑मे॒धाः । श्वे॒तः । सि॒ष॒क्ति॒ । नि॒॑युता᳚म् । अ॒भि॒॑श्रीः ।
ते । वा॒यवे᳚ । स॑म᳚नसः । वि । त॒स्थुः॒ । विश्वा᳚ । इत् । नरः᳚ । सु॒॑अ॒प॒त्यानि᳚ । च॒क्रुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पीवोअन्नान् पीवांसि स्थूलानि प्रभूतान्यन्नानि येषांतान् रयिवृधः रय्या धनेन वृद्धान् एवं भुतानाढ्यजनान् सुमेधाः शोभनप्रज्ञः नियुतां वडवानां वाहानां अभिश्रीरभिश्रयणीयः श्वेतः श्वेतवर्णोवायुः सिषक्ति सेवते । तेच जनाः समनसः समानमनस्काः सन्तः वायवे वायु- मुद्दिश्य यष्टुं वितस्थुः विविधमवतिष्ठन्ते । स्थित्वा च ते नरः कर्मणां नेतारोजनाः विश्वेत् विश्वानि सर्वाण्येव स्वपत्यानि शोभनापत्य- हेतुनि यद्वा सुष्ठु अपतनकारणानि वायुदेवत्यानि कर्माणि चक्रुः कुर्वन्ति ॥ ३ ॥ द्वितीये छन्दोमे प्रउगशस्त्रे ऎन्द्रवायवतृचस्य यावत्तरइत्यादिके द्वे ऋचौ सूत्रं तु पूर्वमेवोदाहृतम् ।