श्रवणम्

7.91.5
नि॒यु॒वा॒ना नि॒युतः᳚ स्पा॒र्हवी᳚रा॒ इन्द्र᳚वायू स॒रथं᳚ यातम॒र्वाक् ।
इ॒दं हि वां॒ प्रभृ᳚तं॒ मध्वो॒ अग्र॒मध᳚ प्रीणा॒ना वि मु᳚मुक्तम॒स्मे ॥
▶ पदपाठः (Word-by-word)
नि॒॑यु॒वा॒ना । नि॒॑युतः᳚ । स्पा॒र्ह॑वी᳚राः । इन्द्र᳚वायू॒ इति᳚ । स॒॑रथ᳚म् । या॒त॒म् । अ॒र्वाक् ।
इ॒दम् । हि । वा॒म् । प्र॑भृ᳚तम् । मध्वः᳚ । अग्र᳚म् । अध᳚ । प्री॒णा॒ना । वि । मु॒मु॒क्त॒म् । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू स्पार्हवीराः स्पृहणीयस्तोतृकान् नियतआत्मीयानश्वान् सरथं उभयोः समानमेकं रथं नियुवाना निमिश्रयन्तौ युवां अर्वा- गस्मदभिमुखे यातम् गच्छतम् । इदं हि इदं खलु मध्वो मधुरस्य सोमस्य अग्रं ग्रहेष्वाद्यमैन्द्रवायवाख्यं ग्रहं वां युवयोरर्थं प्रभृतं प्रकर्षेण हृतं होमार्थमुत्तरवेदिं प्रतिनीतम् अध अथ तादृशस्य सोमस्य पानानन्तरं प्रीणाना प्रीयमाणौ युवां अस्मे अस्मान् विमुमुक्तं पापाद्विमोचयतम् ॥ ५ ॥ प्रथमे छन्दोमे प्रउगशस्त्रे ऎन्द्रवायवतृचस्य यावांशतमिति तृतीया सूत्रितंच-यावांशतंनियुतोयाः सहस्रमित्येकपातिन्यइति ।