श्रवणम्

7.91.6 समानपद
या वां᳚ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र᳚वायू वि॒श्ववा᳚रा॒ः सच᳚न्ते ।
आभि᳚र्यातं सुवि॒दत्रा᳚भिर॒र्वाक्पा॒तं न᳚रा॒ प्रति᳚भृतस्य॒ मध्व᳚ः ॥
▶ पदपाठः (Word-by-word)
याः । वा॒म् । श॒तम् । नि॒॑युतः᳚ । याः । स॒हस्र᳚म् । इन्द्र᳚वायू॒ इति᳚ । वि॒श्व॑वा᳚राः । सच᳚न्ते ।
आ । आ॒भिः॒ । या॒त॒म् । सु॒॑वि॒दत्रा᳚भिः । अ॒र्वाक् । पा॒तम् । न॒रा॒ । प्रति᳚॑भृतस्य । मध्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू या नियुतः शतं शतसंख्याकाः सत्यः वां युवां सचन्ते सेवन्ते याश्च विश्ववारा विश्वैर्वरणीया नियुतः सहस्रं सहस्रसंख्याकाः सत्यः युवां सचन्ते सुविदत्राभिः शोभनधनप्रदाभिराभिर्नियुद्भिरर्वाक् अस्मदभिमुखं आयातमागच्छतम् हे नरा नेतारौ प्रतिभृतस्य उत्तरवेदिं प्रतिनीतस्य मध्वोमधुरस्य सोमस्य द्वितीयार्थे षष्ठी ईदृशं सोमं पातं पिबतम् ॥ ६ ॥