याव॒त्तर᳚स्त॒न्वो॒३॒᳚ याव॒दोजो॒ याव॒न्नर॒श्चक्ष᳚सा॒ दीध्या᳚नाः ।
शुचिं॒ सोमं᳚ शुचिपा पातम॒स्मे इन्द्र᳚वायू॒ सद᳚तं ब॒र्हिरेदम् ॥
शुचिं॒ सोमं᳚ शुचिपा पातम॒स्मे इन्द्र᳚वायू॒ सद᳚तं ब॒र्हिरेदम् ॥
पदपाठः (Word-by-word)
याव᳚त् । तरः᳚ । त॒न्वः᳚ । याव᳚त् । ओजः᳚ । याव᳚त् । नरः᳚ । चक्ष᳚सा । दीध्या᳚नाः ।
शुचि᳚म् । सोम᳚म् । शु॒चि॒॑पा॒ । पा॒त॒म् । अ॒स्मे इति᳚ । इन्द्र᳚वायू॒ इति᳚ । सद᳚तम् । ब॒र्हिः । आ । इ॒दम् ॥
शुचि᳚म् । सोम᳚म् । शु॒चि॒॑पा॒ । पा॒त॒म् । अ॒स्मे इति᳚ । इन्द्र᳚वायू॒ इति᳚ । सद᳚तम् । ब॒र्हिः । आ । इ॒दम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रवायू युवयोस्तन्वः शरीरस्य तरो वेगो यावदस्ति यावच्च ओजो बलं यावच्च नरः कर्मणां नेतार ऋत्विजः चक्षसा ज्ञानेन दीध्यानाः दीप्यमानाः भवन्ति तस्य सर्वस्यानुरूपं शुचिपा शुचेः सोमस्य पाताराविन्द्रवायू शुचिंशुद्धं सोमं अस्मे अस्मदीयं पातं पिबतम् । इदं वेद्यां स्तीर्णं बर्हिश्च आसदतं पानार्थमासीदतं बर्हिषि उपविशतमित्यर्थः ॥ ४ ॥