श्रवणम्

7.91.2
उ॒शन्ता᳚ दू॒ता न दभा᳚य गो॒पा मा॒सश्च᳚ पा॒थः श॒रद᳚श्च पू॒र्वीः ।
इन्द्र᳚वायू सुष्टु॒तिर्वा᳚मिया॒ना मा᳚र्डी॒कमी᳚ट्टे सुवि॒तं च॒ नव्य᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒शन्ता᳚ । दू॒ता । न । दभा᳚य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः᳚ । च॒ । पू॒र्वीः ।
इन्द्र᳚वायू॒ इति᳚ । सु॒॑स्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायु उशन्ता उशन्तौ कामयमानौ दूता दूतौ देवतेर्गतिकर्मणो दूतशब्दः गन्तारौ गोपा गोपायितारौ ईदृशौ युवां दभाय हिंसायै नाभवतम् अपितु मासो मासांश्च पूर्वीर्बह्वीः शरदः संवत्सरांश्च चिरकालमस्मान्पाथो रक्षतम् । अपिच हे इन्द्रवायू सुष्टुतिरस्मदीया शोभना स्तुतिः वां युवां इयाना गच्छन्ती प्राप्नुवन्तो मार्डीकं सुखं ईदृए याचते । यद्वा सुखं यथा भवति तथा युवामीदृए स्तौति । तथा नव्यं प्रशस्यं सुवितं सुष्ठुप्राप्यं धनञ्च ईदृए ॥ २ ॥ नियुत्वद्वायुदेवताके पशौ पीवोअन्नानिति वपायायाज्या सूत्रितञ्च-पीवोअन्नाँरयिवृधः सुमेधा रायेनुयंजज्ञतूरोदसीमेइति । तथा द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्य एषैव द्वितीया सूत्रितञ्च-पीवोअन्नाँरयिवृधःसुमेधा उच्छन्नुषसः सुदिनाअरिप्राइति ।