अप॒ द्रुह॒स्तम᳚ आव॒रजु᳚ष्ट॒मङ्गि᳚रस्तमा प॒थ्या᳚ अजीगः ॥
पदपाठः (Word-by-word)
अप᳚ । द्रुहः᳚ । तमः᳚ । आ॒वः॒ । अजु᳚ष्टम् । अङ्गि᳚रः॑तमा । प॒थ्याः᳚ । अ॒जी॒ग॒रिति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इयमुषाः दिविजाः दिव्यन्तरिक्षे प्रादुर्भूतासती व्यावः व्यौच्छत् विभानं कृतवतीत्यर्थः वसिर्निवासवाची अत्र विपूर्वोव्युच्छनेभवेत् छन्दस्यपिदृश्यतइत्याट् दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वादनजादेरप्याडागमः हल् ङ्याब्भ्यइतिलोपः सैवोषाः ऋतेन तेजसा महिमानं स्वमहत्त्वमाविष्कृण्वाना आगात् आगतवती आगत्यच द्रुहोस्मदृरोग्धॄन् अजुष्टं सर्वेषामप्रियं तमश्चअपावः अपवृणोति किञ्च अङ्गिरस्तमा अङ्गेर्गत्यर्थादङ्गिराः गन्तृतमाः पथ्याः पदवीरजीगः उद्गिरति प्राणिनांव्यवहाराय प्रकाशयतीत्यर्थः ॥ १ ॥