नू नो॒ गोम᳚द्वी॒रव᳚द्धेहि॒ रत्न॒मुषो॒ अश्वा᳚वत्पुरु॒भोजो᳚ अ॒स्मे ।
मा नो᳚ ब॒र्हिः पु᳚रु॒षता᳚ नि॒दे क᳚र्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
मा नो᳚ ब॒र्हिः पु᳚रु॒षता᳚ नि॒दे क᳚र्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
नु । नः॒ । गो॑म᳚त् । वी॒र॑व᳚त् । धे॒हि॒ । रत्न᳚म् । उषः᳚ । अश्व᳚॑वत् । पु॒रु॒॑भोजः᳚ । अ॒स्मे इति᳚ ।
मा । नः॒ । ब॒र्हिः । पु॒रु॒षता᳚ । नि॒दे । कः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
मा । नः॒ । ब॒र्हिः । पु॒रु॒षता᳚ । नि॒दे । कः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे उषः नोस्मभ्यं नु क्षिप्रं गोमद्भहुभिर्गोभिर्युक्तं वीरवद्वीरैः पुत्रैरुपेतं अश्ववत् बहुभिरश्वैरुपेतं रत्नं रमणीयं धनं पुरुभोजोबह्वन्नं चास्मे अस्मासु धेहि देहि पादभेदादस्मेइति पुनरभिधानम् । नोस्माकं बर्हिर्यज्ञं पुरुषता पुरुषतायां पुरुषसमूहेष्वस्मत्सदृशेष्वित्यर्थः निदे निंदायै माकः मकार्षीः । यथा ते निन्दन्ति तथा मा कर्वित्यर्थः ॥ ८ ॥
उदुज्योतिरिति सप्तर्चं षष्ठं सूक्तं त्रैष्टुभमुषस्यं तथाचानुक्रान्तम् – उदुसप्तेति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।