म॒हे नो᳚ अ॒द्य सु᳚वि॒ताय᳚ बो॒ध्युषो᳚ म॒हे सौभ᳚गाय॒ प्र य᳚न्धि ।
चि॒त्रं र॒यिं य॒शसं᳚ धेह्य॒स्मे देवि॒ मर्ते᳚षु मानुषि श्रव॒स्युम् ॥
चि॒त्रं र॒यिं य॒शसं᳚ धेह्य॒स्मे देवि॒ मर्ते᳚षु मानुषि श्रव॒स्युम् ॥
पदपाठः (Word-by-word)
म॒हे । नः॒ । अ॒द्य । सु॒वि॒ताय᳚ । बो॒धि॒ । उषः᳚ । म॒हे । सौभ᳚गाय । प्र । य॒न्धि॒ ।
चि॒त्रम् । र॒यिम् । य॒शस᳚म् । धे॒हि॒ । अ॒स्मे इति᳚ । देवि᳚ । मर्ते᳚षु । मा॒नु॒षि॒ । श्र॒व॒स्युम् ॥
चि॒त्रम् । र॒यिम् । य॒शस᳚म् । धे॒हि॒ । अ॒स्मे इति᳚ । देवि᳚ । मर्ते᳚षु । मा॒नु॒षि॒ । श्र॒व॒स्युम् ॥
सायणभाष्यम् (Sayana Commentary)
अद्य नोस्माकं महे महते सुविताय सुखप्राप्तये सुखगमनायवा बोधि भव । किञ्च हे उषः महे महते सौभगाय सौभाग्याय प्रयन्धि प्रयच्छ अस्मान् । किंच चित्रं चायनीयं यशसं यशोयुक्तं रयिं धनं धेहि धारय । अस्मे अस्मासु हे मानुषि मनुष्यहिते देवि मर्तेष्वस्मासु श्रवस्युं अन्नवन्तं पुत्रं धेहीत्यनुषङ्गः ॥ २ ॥