श्रवणम्

7.75.3
ए॒ते त्ये भा॒नवो᳚ दर्श॒ताया᳚श्चि॒त्रा उ॒षसो᳚ अ॒मृता᳚स॒ आगु᳚ः ।
ज॒नय᳚न्तो॒ दैव्या᳚नि व्र॒तान्या᳚पृ॒णन्तो᳚ अ॒न्तरि᳚क्षा॒ व्य᳚स्थुः ॥
▶ पदपाठः (Word-by-word)
ए॒ते । त्ये । भा॒नवः᳚ । द॒र्श॒तायाः᳚ । चि॒त्राः । उ॒षसः᳚ । अ॒मृता᳚सः । आ । अ॒गुः॒ ।
ज॒नय᳚न्तः । दैव्या᳚नि । व्र॒तानि᳚ । आ॒॑पृ॒णन्तः᳚ । अ॒न्तरि᳚क्षा । वि । अ॒स्थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शतायाः दर्शनीयायाः प्रकाशयुक्तायाउषसः एते पुरोदृश्यमानाः त्ये ते प्रसिद्धाश्चित्राः पूज्याआश्चर्यभूतावा अमृतासःअमरणा अनश्वरा भानवोरश्मयः आ अगुः आगच्छन्ति । किं कुर्वन्तः दैव्यानि देवानां संबन्धीनि व्रतानि कर्माणि जनयन्तः उत्पादयन्तः तदनुकूलप्रकाश- प्रदानात्तदुत्पादकत्वमेषां अन्तरिक्षाअन्तरिक्षाणि आपृणन्त आपूरयन्तः एकस्यैवान्तरिक्षस्य वायुमेघपक्षिणामालंबनोपाधिना त्रिविधत्वं अतोबहुवचनमुपपन्नं एवं कुर्वन्तोभानवोव्यस्थुः विविधं तिष्ठति प्रसरंति ॥ ३ ॥