श्रवणम्

7.75.4
ए॒षा स्या यु᳚जा॒ना प᳚रा॒कात्पञ्च᳚ क्षि॒तीः परि᳚ स॒द्यो जि᳚गाति ।
अ॒भि॒पश्य᳚न्ती व॒युना॒ जना᳚नां दि॒वो दु᳚हि॒ता भुव᳚नस्य॒ पत्नी᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षा । स्या । यु॒जा॒ना । प॒रा॒कात् । पञ्च᳚ । क्षि॒तीः । परि᳚ । स॒द्यः । जि॒गा॒ति॒ ।
अ॒भि॒॑पश्य᳚न्ती । व॒युना᳚ । जना᳚नाम् । दि॒वः । दु॒हि॒ता । भुव᳚नस्य । पत्नी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषा स्या सोषाः पराकात् दूरदेशात् दूरे स्थितापि युजाना उद्योगं कुर्वाणा प्रकाशाय पञ्चक्षितीः निषादपञ्चमाश्चत्वारोवर्णाः सद्यः परिजिगाति परिगच्छति किंकुर्वती जनानां प्राणिनां वयुना प्रज्ञानानि अभिपश्यन्ती साक्षित्वेनावलोकयन्ती कीदृशी सादिवोदुहिता दुहितृस्थानीया भवनस्य भूतजातस्य पत्नी पालयित्री परिजिगातीत्यन्वयः ॥ ४ ॥