श्रवणम्

7.75.5 समानपद
वा॒जिनी᳚वती॒ सूर्य᳚स्य॒ योषा᳚ चि॒त्राम᳚घा रा॒य ई᳚शे॒ वसू᳚नाम् ।
ऋषि᳚ष्टुता ज॒रय᳚न्ती म॒घोन्यु॒षा उ᳚च्छति॒ वह्नि᳚भिर्गृणा॒ना ॥
▶ पदपाठः (Word-by-word)
वा॒जिनी᳚॑वती । सूर्य᳚स्य । योषा᳚ । चि॒त्र॑म᳚घा । रा॒यः । ई॒शे॒ । वसू᳚नाम् ।
ऋषि᳚॑स्तुता । ज॒रय᳚न्ती । म॒घोनी᳚ । उ॒षाः । उ॒च्छ॒ति॒ । वह्नि᳚॑भिः । गृ॒णा॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनीवती बह्वन्ना यद्यप्युषोनामैतत् तथापि चित्रामघेत्यस्यापि उषोनामकस्य पृथग्विद्यमानत्वादत्रैकोयोगरूढोवगन्तव्यः । सूर्यस्य योषा योषित् चित्रामघा विचित्रधना विचित्ररश्म्याख्यधनावा रायोधनस्य अविशिष्टस्य तस्य वसूनां देवमनुष्यादिसर्वाश्रयाणां धनानां चेशे ईष्टे अथवा वसवोवासका रश्मयः तेषामपीष्टे । ऋषिष्टुता ऋषिभिः स्तुता जरयन्ती प्राणिजाता नि उषाः खलु पुनः पुनरावर्तमाना प्राणिनामायुः क्षपयति । मघोनी धनवती उषाः वह्रिभिः कर्मवोढृभिः यजमानैर्गृणाना स्तूयमाना उच्छति विभानं करोति ॥ ५ ॥