श्रवणम्

7.75.6 समानपद
प्रति᳚ द्युता॒नाम᳚रु॒षासो॒ अश्वा᳚श्चि॒त्रा अ᳚दृश्रन्नु॒षसं॒ वह᳚न्तः ।
याति᳚ शु॒भ्रा वि᳚श्व॒पिशा॒ रथे᳚न॒ दधा᳚ति॒ रत्नं᳚ विध॒ते जना᳚य ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । द्यु॒ता॒नाम् । अ॒रु॒षासः᳚ । अश्वाः᳚ । चि॒त्राः । अ॒दृ॒श्र॒न् । उ॒षस᳚म् । वह᳚न्तः ।
याति᳚ । शु॒भ्रा । वि॒श्व॒॑पिशा᳚ । रथे᳚न । दधा᳚ति । रत्न᳚म् । वि॒ध॒ते । जना᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्युतानां द्योतमानामुपसं वहन्तोधारयन्तः अरुषासः आरोचमानाश्चित्राश्चायनीयाअश्वाः प्रत्यदृश्रन् प्रतिदृश्यन्ते साचोषाः शुभ्रादीप्य- माना विश्वपिशा बहुरूपेण रथेन पाति सर्वत्रगच्छति । विधते परिचरते जनाय रत्नं रमणीयं धनं दधाति ददाति च ॥ ६ ॥