सप्तमं मण्डलम् - सूक्तम् 100

7 ऋचः

ऋषिः: वसिष्ठः देवता: विष्णुः छन्दः: त्रिष्टुप्

सूक्तम् 7.100 - सम्पूर्णम्

1 / 7
ऋक्: 7.100.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.100.1 समानपद
नू मर्तो᳚ दयते सनि॒ष्यन्यो विष्ण᳚व उरुगा॒याय॒ दाश᳚त् ।
प्र यः स॒त्राचा॒ मन᳚सा॒ यजा᳚त ए॒ताव᳚न्तं॒ नर्य᳚मा॒विवा᳚सात् ॥
▶ पदपाठः (Word-by-word)
नु । मर्तः᳚ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण᳚वे । उ॒रु॒॑गा॒याय᳚ । दाश᳚त् ।
प्र । यः । स॒त्राचा᳚ । मन᳚सा । यजा᳚ते । ए॒ताव᳚न्तम् । नर्य᳚म् । आ॒॑विवा᳚सात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समर्तोमनुष्यः सनिष्यन् धनमिच्छन् नु क्षिप्रं दयते धनमादत्ते दयतिराङ्पूर्वार्थेद्रष्टव्यः योमनुष्यः उरुगायाय बहुभिः कीर्तनीयाय विष्णवे दाशत् हवींषि दद्यात् यश्च सत्राचा सहाञ्चता मनसा मननेन स्तोत्रेण प्रयजाते प्रकर्षेण पूजयेत् एतावन्तं एतावत् परिमाणं महान्तं नर्यं नरेभ्योहितं विष्णुं आविवासात् नमस्कारादिभिः परिचरेत् समर्तोदयतइत्यन्वयः । यद्वा सनिष्यन्निति सनतेर्लाभार्थस्य ऌटि रूपम् समर्तः सनिष्यन् धनादीनि लप्स्यमानोभवन्नेव हविरादिकं नु क्षिप्रं दयते विष्णवे ददातीति योज्यम् ॥ १ ॥ विष्णुदेवत्येपशौ पुरोडाशस्य त्वंविष्णोइत्यनुवाक्या सूत्रितञ्च-त्वंविष्णोसुमतिंविश्वजन्यां विचक्रमेपृथिवीमेषएतामिति ।

7.100.2 समानपद
त्वं वि᳚ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र᳚युतामेवयावो म॒तिं दा᳚ः ।
पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्च॒न्द्रस्य᳚ रा॒यः ॥
▶ पदपाठः (Word-by-word)
त्वम् । वि॒ष्णो॒ इति᳚ । सु॒॑म॒तिम् । वि॒श्व॑ज᳚न्याम् । अप्र᳚॑युताम् । ए॒व॒॑या॒वः॒ । म॒तिम् । दाः॒ ।
पर्चः᳚ । यथा᳚ । नः॒ । सु॒वि॒तस्य᳚ । भूरेः᳚ । अश्व᳚॑वतः । पु॒रु॒॑च॒न्द्रस्य᳚ । रा॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे एवयावः एवाः प्राप्तव्याः कामाः तान् यावयति प्रापयति स्तोतॄनित्येवयावः हे एवयावन् विष्णो त्वं विश्वजन्यां सर्वजनहितां अप्रयुतां दोषैर्वियुक्तां सुमतिं मतिं अनुग्रहबुद्धिं दाः अस्मभ्यं देहि सुवितस्य सुष्ठु प्राप्तव्यस्य भूरेर्बहुलस्य अश्वावतोश्वयुक्तस्य परुश्चन्द्रस्य पुरू- णां बहूनां आह्लादकस्य रायोधनस्य पर्चः संपर्कोनोस्माकं यथा भवति तथा देहीत्यन्वयः ॥ २ ॥ वैष्णव्यस्योपांशुयाजस्य त्रिर्देवइतियाज्या सूत्रितञ्च-इदंविष्णुर्विचक्रमे त्रिर्देवःपृथिवीमेषएतामिति । वैष्णव्येपशावप्येषैव वपायाज्या सूत्रितञ्च-त्रिर्देवःपृथिवीमेषएतां परोमात्रयातन्वावृधानेति ।

7.100.3
त्रिर्दे॒वः पृ᳚थि॒वीमे॒ष ए॒तां वि च᳚क्रमे श॒तर्च᳚सं महि॒त्वा ।
प्र विष्णु᳚रस्तु त॒वस॒स्तवी᳚यान्त्वे॒षं ह्य᳚स्य॒ स्थवि᳚रस्य॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒त॑अ᳚र्चसम् । म॒हि॒॑त्वा ।
प्र । विष्णुः᳚ । अ॒स्तु॒ । त॒वसः᳚ । तवी᳚यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि᳚रस्य । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषदेवोदानादिगुणयुक्तोविष्णुः शतर्चसं शतसंख्यान्यर्चीषि यस्यास्तादृशीं एतां पृथिवीं उपलक्षणमेतत् पृथिव्यादीन् त्रीन् लोकान् महित्वा महत्त्वेन त्रिर्विचक्रमे त्रिभिः पदैर्विक्रान्तवान् तवसः तवस्विनोवृद्धादपि तवीयान् तवस्वितरोविष्णुः प्रास्तु अस्माकं प्रभवतु स्वामीभवतु अस्यस्थविरस्य वृद्धस्य विष्णोर्नाम नामकं रूपं विष्णुरित्येतन्नामैववा त्वेषं हि यस्माद्दीप्तं तस्मात् कारणात् सविष्णुः प्रभवत्वित्यर्थः ॥ ३ ॥ पूर्वोक्तएवपशौ विचक्रमइति वपायाअनुवाक्या सूत्रितञ्च-विचक्रमेपृथिवीमेषएतां त्रिर्देवःपृथिवीमेषएतामिति ।

7.100.4
वि च᳚क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु᳚षे दश॒स्यन् ।
ध्रु॒वासो᳚ अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि᳚मा चकार ॥
▶ पदपाठः (Word-by-word)
वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा᳚य । विष्णुः᳚ । मनु᳚षे । द॒श॒स्यन् ।
ध्रु॒वासः᳚ । अ॒स्य॒ । की॒रयः᳚ । जना᳚सः । उ॒रु॒॑क्षि॒तिम् । सु॒॑जनि᳚मा । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषदेवोविष्णुः एतां प्रुथिवीं पृथिव्यादीनिमांस्त्रीन् लोकान् क्षेत्राय निवासार्थं मनुषे स्तुवते देवगणाय दशस्यन् असुरेभ्योपहृत्य प्रदास्यन् विचक्रमे विक्रान्तवान् अस्यच विष्णोः कीरयः स्तोतारोजनासोजनाः ध्रुवासो निश्चलाभवन्ति ऎहिकामुष्मिकयोर्लाभेन स्थिराभवन्तीत्यर्थः । सुजनिमा शोभनानि जनिमानि कीर्तनस्मरणादिना सुखहेतुभूतानि यस्य तादृशोविष्णुः उरुक्षितिं विस्तीर्णनिवासं चकार स्तोतृभ्यः करोति ॥ ४ ॥ तृतीयसवने अतिरात्रादूर्ध्वं सोमातिरेकेसति नैमित्तिके होतुःशस्त्रे प्रतत्तेअद्येति स्तोत्रियस्तृचः आभ्युदयेष्टौविष्णोः शिपिविष्टस्य प्रतत्तेअद्येतियाज्या सूत्रितञ्च-वषट्तेविष्णवासआकृणोमि प्रतत्तेअद्यशिपिविष्टनामेति ।

7.100.5
प्र तत्ते᳚ अ॒द्य शि᳚पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् ।
तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न्क्षय᳚न्तम॒स्य रज᳚सः परा॒के ॥
▶ पदपाठः (Word-by-word)
प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒॑वि॒ष्ट॒ । नाम᳚ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना᳚नि । वि॒द्वान् ।
तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस᳚म् । अत᳚व्यान् । क्षय᳚न्तम् । अ॒स्य । रज᳚सः । प॒रा॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शिपिविष्ट रश्मिभिराविष्ट विष्णो ते तव तत्प्रसिद्धं विष्णुरिति प्रख्यातं नाम अर्यः स्वामी स्तुतीनां हविषां वा तथा वयुनानि ज्ञात- व्यान्यर्थजातानि विद्वान् जानन्नहं अद्येदानीं प्रशंसामि प्रकर्षेण स्तौमि तवसं प्रवृद्धं तं त्वा त्वां विष्णुं अतव्यान् अतवीयान् अवृद्धतरोहं गृणामि स्तौमि कीदृशं अस्य रजसोलोकस्य पराके दूरदेशे क्षयन्तं निवसन्तम् ॥ ५ ॥

7.100.6
किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त्प्र यद्व᳚व॒क्षे शि᳚पिवि॒ष्टो अ᳚स्मि ।
मा वर्पो᳚ अ॒स्मदप᳚ गूह ए॒तद्यद॒न्यरू᳚पः समि॒थे ब॒भूथ᳚ ॥
▶ पदपाठः (Word-by-word)
किम् । इत् । ते॒ । वि॒ष्णो॒ इति᳚ । प॒रि॒॑चक्ष्य᳚म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒॑वि॒ष्टः । अ॒स्मि॒ ।
मा । वर्पः᳚ । अ॒स्मत् । अप᳚ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्य॑रू᳚पः । स॒म्॑इ॒थे । ब॒भूथ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा खलु विष्णुः स्वं रूपं परित्यज्य कृत्रिमरूपान्तरं धारयन् संग्रामे वसिष्ठस्य साहाय्यंचकार तंजानन् ऋषिरनया प्रत्याचष्टे । अत्रनिरुक्तम्-शिपिविष्टोविष्णुरिति विष्णोर्द्वेनामनीभवतः कुत्सितार्थीयंपूर्वं भवतीत्यौपमन्यवः किंते विष्णो प्रख्यातमेतद्भवत्यप्रख्या- पनीयं यन्नः प्रब्रूबे शेपइव निर्वेष्टितोस्मीत्यप्र्तिपन्नरश्मिरपिवा प्रशंसानामैवाभिप्रेतंस्यात् किं ते विष्णो प्रख्यातमेतद्भवत्यप्रख्यापनीयं यदुत प्रब्रूषे शिपिविष्टोस्मीति प्रतिपन्नरश्मिः शिपयोत्ररश्मयउच्यन्ते तैराविष्टोभवति मावर्पोअस्मदपगूहएतत् वर्पइतिरूपनाम वृणोतीति सतोयदन्यरूपः समिथे संग्रामेभवसि संयतरश्मिरिति । तत्र कुत्सितार्थपक्षे योजना हेविष्णो ते तव तन्नामास्मभ्यं प्रववक्षे प्रब्रूषे शिपिविष्टोस्मीति अन्तर्णीतोपमानमेतत् शेपइवनिर्वेष्टितः तेजसा अनाच्छादितोभवामीति तदश्लीलार्थत्वादिदं नाम न प्रशस्त- मित्यर्थः । तन्नाम किं परिचक्ष्यं वर्जनीयं परित्याज्यं विरुद्धार्थप्रतिपादकत्वात् स्वतएव परित्यक्तं हि तत् । शिष्टं समानंपूर्वेण अत- उक्तरूपविलक्षणं यद्वैष्णवरूपमस्ति एतद्वर्पोरूपं अस्मत् अस्माकं मापगूहः अपगूढं संवृतं मा कुरु गुहूसंवरणे अपितु तदेवरूपं प्रकटय वैष्णवस्य रूपस्य गूहने का प्रसक्तिरिति चेत् यत् यस्मात्तु अन्यत् रूपान्तरमेव धारयन् समिथे संग्रामे बभूथ अस्माकं सहायोभवसि तस्मादिदं गूहनं न कार्यमिति । प्रशंसापक्षेतु हेविष्णो ते तव तन्नाम किं परिचक्ष्यं भूत् किं प्रख्यापनीयं भवति न प्रख्यापनीयम् । किं तन्नाम । शिपिविष्टोरश्मिभिराविष्टोस्मीति यन्नाम प्रब्रूषे यतएवं प्रख्यातरूपस्त्वं अतोस्माकं एतद्वैष्णवं रूपं संवृतं माकार्षीः इदानीं गूढरूपोपि यद्यस्मात्त्वं समिथे संग्रामे अन्यरूपः कृत्रिमरूपात् यदन्यद्वैष्णवं रूपं शौर्यादिलक्षणं तादृग्रुपः एव बभूथ भवसि तस्मात्त्वं गूढोपि ज्ञायसएवेति व्यर्थमेव तस्य रूपस्य गूहनं अतोबहुतेजस्कं यद्वैष्णवं रूपं तदस्माकं प्रर्दशयेति तात्पर्यार्थः ॥ ६ ॥

7.100.7
वष᳚ट् ते विष्णवा॒स आ कृ᳚णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् ।
वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
वष᳚ट् । ते॒ । वि॒ष्णो॒ इति᳚ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒॑वि॒ष्ट॒ । ह॒व्यम् ।
वर्ध᳚न्तु । त्वा॒ । सु॒॑स्तु॒तयः᳚ । गिरः᳚ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्याख्यातेयम् अक्षरार्थस्तु हे विष्णो तुभ्यं आस्यात् आस्येन वषट्करोमि वषट्कृतं तन्मदीयं हविः हे शिपिविष्ट सेवस्व शोभनस्तुतिरूपा- मदीयावाचश्च त्वां वर्धयन्त्विति । शिष्टपादः सिद्धः ॥ ७ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येपञ्चमाष्टकेषष्ठोध्यायः ॥ ६ ॥