सप्तमं मण्डलम् - सूक्तम् 34

25 ऋचः

ऋषिः: वसिष्ठः देवता: विश्वेदेवाः छन्दः: द्विपदा विराट्

सूक्तम् 7.34 - सम्पूर्णम्

1 / 25
ऋक्: 7.34.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (25)
7.34.1
प्र शु॒क्रैतु᳚ दे॒वी म᳚नी॒षा अ॒स्मत्सुत᳚ष्टो॒ रथो॒ न वा॒जी ॥
▶ पदपाठः (Word-by-word)
प्र । शु॒क्रा । ए॒तु॒ । दे॒वी । म॒नी॒षा । अ॒स्मत् । सु॑त᳚ष्टः । रथः᳚ । न । वा॒जी ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुक्रा दीप्ता देवी सर्वेषां कामानां प्रदात्री मनीषा स्तुतिरस्मदस्मत्तोस्मिन्सूक्ते स्तोष्यमाणान् देवान् वाजी वेगवान् सुतष्टः सुसंस्कृतोरथोन रथइव प्रैतु गच्छतु ॥ १ ॥

7.34.2
वि॒दुः पृ᳚थि॒व्या दि॒वो ज॒नित्रं᳚ शृ॒ण्वन्त्यापो॒ अध॒ क्षर᳚न्तीः ॥
▶ पदपाठः (Word-by-word)
वि॒दुः । पृ॒थि॒व्याः । दि॒वः । ज॒नित्र᳚म् । शृ॒ण्वन्ति᳚ । आपः᳚ । अध᳚ । क्षर᳚न्तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यामृच्यापः स्तूयन्ते क्षरन्तीः क्षरन्त्यआपोदिवः पृथिव्याश्च उभयोरपिलोकयोरित्यर्थः जनित्रमुत्पत्तिं विदुर्जानन्ति अधापिच श्रृण्वन्ति स्तोत्राणीति शेषः ॥ २ ॥

7.34.3
आप᳚श्चिदस्मै॒ पिन्व᳚न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस᳚न्त उ॒ग्राः ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । चि॒त् । अ॒स्मै॒ । पिन्व᳚न्त । पृ॒थ्वीः । वृ॒त्रेषु᳚ । शूराः᳚ । मंस᳚न्ते । उ॒ग्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रोस्मिन्द्वृचे स्तूयते पृथ्वीः पृथ्व्यः प्रथमाना आपश्चिदापोप्यस्माइन्द्राय पिन्वन्त प्यायन्ते वृत्रेषूपद्रवेषु सत्सूग्राउद्गूर्णास्तेजस्विनोवा शूरायोद्धारोपि मंसन्ते इममेवेन्द्रंस्तुवन्ति ॥ ३ ॥

7.34.4
आ धू॒र्ष्व᳚स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर᳚ण्यबाहुः ॥
▶ पदपाठः (Word-by-word)
आ । धूः॒॑सु । अ॒स्मै॒ । दधा᳚त । अश्वा᳚न् । इन्द्रः᳚ । न । व॒ज्री । हिर᳚ण्य॑बाहुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मै षष्ठ्यर्थेचतुर्थी अस्येन्द्रस्यागमनायाश्वान् धूर्षु रथस्य आदधात इन्द्रोन नेतिचार्थे इन्द्रः वज्री वज्रवान् हिरण्यबाहुः हिरण्यहस्तश्च भवति । षोडशिनिशस्यमानत्वादस्याऎन्द्रत्वं गम्यते आधूर्ष्वस्माइत्यत्रास्माइत्यस्य पदस्यानुदात्तत्वं पूर्वस्यामिन्द्रस्य प्रकृतत्वात् अतएव पूर्वाप्यैन्द्रीति विज्ञायते पूर्वस्यामप्यृचि अस्माइत्यत्रानुदात्तत्वं अल्पीयोर्थतरमनुदात्तमिति । तथाच यास्कः-अस्येतिचोदात्तं प्रथमादेशे- नुदात्तमन्वादेशेतीव्रार्थतरमनुदात्तमल्पीयोर्थतरमनुदात्तमिति । अल्पीयस्त्वं चेदंशब्दप्रवृत्तिनिमित्तस्य संनिधानस्य दूरस्थत्वेनेत्यवग- न्तव्यम् ॥ ४ ॥

7.34.5
अ॒भि प्र स्था॒ताहे᳚व य॒ज्ञं याते᳚व॒ पत्म॒न्त्मना᳚ हिनोत ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र । स्था॒त॒ । अह᳚॑इव । य॒ज्ञम् । याता᳚॑इव । पत्म᳚न् । त्मना᳚ । हि॒नो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्तुतिरयं हे जनाः यज्ञमभिप्रस्थात अभिक्रमत अहेवेतिपूरणौ अपि च पत्मन् पत्मनि यज्ञमार्गे त्मना स्वयमेव यातेव गन्तेव हिनोत गच्छत । हिगतावितिधातुः ॥ ५ ॥

7.34.6
त्मना᳚ स॒मत्सु᳚ हि॒नोत᳚ य॒ज्ञं दधा᳚त के॒तुं जना᳚य वी॒रम् ॥
▶ पदपाठः (Word-by-word)
त्मना᳚ । स॒मत्॑सु᳚ । हि॒नोत᳚ । य॒ज्ञम् । दधा᳚त । के॒तुम् । जना᳚य । वी॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तस्यैवविवरणमत्र हे मदीयाजनाः समत्सु संग्रामेषु त्मना स्वयमेव हिनोत गच्छत अपिच केतुं प्रज्ञापकं वीरं पापानां वारयितारं नाशकमित्यर्थः यज्ञं जनाय लोकाय तद्रक्षार्थमित्यर्थः दधात विधत्त ॥ ६ ॥

7.34.7
उद᳚स्य॒ शुष्मा᳚द्भा॒नुर्नार्त॒ बिभ᳚र्ति भा॒रं पृ᳚थि॒वी न भूम᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒स्य॒ । शुष्मा᳚त् । भा॒नुः । न । आ॒र्त॒ । बिभ᳚र्ति । भा॒रम् । पृ॒थि॒वी । न । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य यज्ञस्य शुष्माद्बलाद्भानुः सूर्यउदार्त उद्गच्छति भूम भूतनि पृथिवीन पृथिवीव भारं लोकस्यायं यज्ञोबिभर्ति चन पूरणः ॥ ७ ॥

7.34.8
ह्वया᳚मि दे॒वा{4} अया᳚तुरग्ने॒ साध᳚न्नृ॒तेन॒ धियं᳚ दधामि ॥
▶ पदपाठः (Word-by-word)
ह्वया᳚मि । दे॒वान् । अया᳚तुः । अ॒ग्ने॒ । साध᳚न् । ऋ॒तेन᳚ । धिय᳚म् । द॒धा॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिंस्तृचे देवाः स्तूयन्ते-हे अग्ने अयातुरहिंसादिनियमयुक्तेन ऋतेन यज्ञेन साधन् कामान् साधयन् देवान् ह्वयामि अपि च धियं देवानां परिचरणात्मकं कर्म दधामि करोमीत्यर्थः ॥ ८ ॥

7.34.9
अ॒भि वो᳚ दे॒वीं धियं᳚ दधिध्वं॒ प्र वो᳚ देव॒त्रा वाचं᳚ कृणुध्वम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । वः॒ । दे॒वीम् । धिय᳚म् । द॒धि॒ध्व॒म् । प्र । वः॒ । दे॒व॒॑त्रा । वाच᳚म् । कृ॒णु॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जनावोयूयं अभि देवानुद्दिश्य देवीं दीप्तां धियं कर्म दधिध्वं वधतं अपि च वोयूयं देवत्रा देवेषु वाचं स्तुतिरूपां प्रकृणुध्वं प्रकर्षेण कुरुध्वं ॥ ९ ॥

7.34.10
आ च᳚ष्ट आसां॒ पाथो᳚ न॒दीनां॒ वरु᳚ण उ॒ग्रः स॒हस्र᳚चक्षाः ॥
▶ पदपाठः (Word-by-word)
आ । च॒ष्टे॒ । आ॒सा॒म् । पाथः᳚ । न॒दीना᳚म् । वरु᳚णः । उ॒ग्रः । स॒हस्र᳚॑चक्षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रचक्षाः बहुचक्षुः वरुणः आसां नदीनां पाथोजलमाचष्टेभिपश्यति किदृशोवरुणः उग्रः उद्गूर्णओजस्वी वा ॥ १० ॥

7.34.11
राजा᳚ रा॒ष्ट्रानां॒ पेशो᳚ न॒दीना॒मनु᳚त्तमस्मै क्ष॒त्रं वि॒श्वायु᳚ ॥
▶ पदपाठः (Word-by-word)
राजा᳚ । रा॒ष्ट्राना᳚म् । पेशः᳚ । न॒दीना᳚म् । अनु᳚त्तम् । अ॒स्मै॒ । क्ष॒त्रम् । वि॒श्व॑आ᳚यु ॥
▶ सायणभाष्यम् (Sayana Commentary)

राष्ट्रानां राष्ट्राणां णत्वाभावश्छान्दसः ईश्वराणामपि वरुणोराजा ईश्वरोभवति नदीनां पेशोरूपं रूपकृदपि भवतीत्यर्थः अस्मै षष्ठ्यर्थे- चतुर्थी अस्य वरुणस्य क्षत्रं बलं अनुत्तं अन्यैरबाधितं विश्वायु सर्वतोगन्तृ भवतीति ॥ ११ ॥

7.34.12
अवि᳚ष्टो अ॒स्मान्विश्वा᳚सु वि॒क्ष्वद्युं᳚ कृणोत॒ शंसं᳚ निनि॒त्सोः ॥
▶ पदपाठः (Word-by-word)
अवि᳚ष्टो॒ इति᳚ । अ॒स्मान् । विश्वा᳚सु । वि॒क्षु । अद्यु᳚म् । कृ॒णो॒त॒ । शंस᳚म् । नि॒नि॒त्सोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं द्वृचोदैवः हे देवाः अस्मान् विश्वासु सर्वासु विक्षु प्रजासु । अविष्ट उइति समुदितमविष्टोइति । अविष्ट रक्षत शंसं निनित्सोः निन्दि- तुमिच्छतः शत्रोः अद्युं अदीप्तिं कृणोत कुरुत च ॥ १२ ॥

7.34.13
व्ये᳚तु दि॒द्युद्द्वि॒षामशे᳚वा यु॒योत॒ विष्व॒ग्रप᳚स्त॒नूना᳚म् ॥
▶ पदपाठः (Word-by-word)
वि । ए॒तु॒ । दि॒द्युत् । द्वि॒षाम् । अशे᳚वा । यु॒योत᳚ । विष्व᳚क् । रपः᳚ । त॒नूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विषां शत्रूणां दिद्युदायुधमशेवा असुखकरी विष्वक् सर्वतोव्येतु अपगच्छतु तनूनामंगानां रपः पापं हे देवाः युयोत अस्मत्तः पृथक्कुरुत ॥ १३ ॥

7.34.14
अवी᳚न्नो अ॒ग्निर्ह॒व्यान्नमो᳚भि॒ः प्रेष्ठो᳚ अस्मा अधायि॒ स्तोमः᳚ ॥
▶ पदपाठः (Word-by-word)
अवी᳚त् । नः॒ । अ॒ग्निः । ह॒व्य॒॑अत् । नमः᳚॑भिः । प्रेष्ठः᳚ । अ॒स्मै॒ । अ॒धा॒यि॒ । स्तोमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हव्यात् हव्यानामत्ताग्निः नमोभिरस्मदीयैर्नमस्कारैः प्रेष्ठः प्रियतमः सन् नोस्मान् अवीत् रक्षतु । अस्मैअग्नये स्तोयः स्तोत्रमधायि अस्माभिर्व्यधायि ॥ १४ ॥

7.34.15
स॒जूर्दे॒वेभि᳚र॒पां नपा᳚तं॒ सखा᳚यं कृध्वं शि॒वो नो᳚ अस्तु ॥
▶ पदपाठः (Word-by-word)
स॒॑जूः । दे॒वेभिः᳚ । अ॒पाम् । नपा᳚तम् । सखा᳚यम् । कृ॒ध्व॒म् । शि॒वः । नः॒ । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः अपामुदकानां नपातं पुत्रमग्निं सूनुः नपादित्यपत्यनामसु पाठात् देवेभिर्देवैः सजूः सह सखायं मित्रं स्तुतिभिः कृध्वं कुरुध्वम् । स़चापांनपात नोस्मभ्यं शिवः सुखकरोस्तुभवतु ॥ १५ ॥

7.34.16
अ॒ब्जामु॒क्थैरहिं᳚ गृणीषे बु॒ध्ने न॒दीनां॒ रज᳚स्सु॒ षीद᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑जाम् । उ॒क्थैः । अहि᳚म् । गृ॒णी॒षे॒ । बु॒ध्ने । न॒दीना᳚म् । रजः᳚॑सु । सीद᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहिं मेघानां हन्तारं नदीनामुदकानां बुध्ने स्थाने बुध्नमन्तरिक्षं बद्धाअस्मिन् धृताआपइतिव्युत्पत्तेः तस्मिन् रजःसु उदकेषु सीदन् सीदन्तं अब्जां अप्सुजातं इममग्निं उक्थैः स्तोत्रैः गृणीषे । तथाचयास्कः-बुध्नेनदीनां रजस्सु उदकेषु सीदन् बुध्नमन्तरिक्षं बद्धाअस्मि- न्धृता आपइतीति ॥ १६ ॥

7.34.17
मा नो॑हि᳚र्बु॒ध्न्यो᳚ रि॒षे धा॒न्मा य॒ज्ञो अ᳚स्य स्रिधदृता॒योः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । रि॒षे । धा॒त् । मा । य॒ज्ञः । अ॒स्य॒ । स्रि॒ध॒त् । ऋ॒त॒॑योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहिर्बुध्न्यः बुध्नेन्तरिक्षे भवोबुध्न्यः अहिश्चासौ बुध्न्यश्चेत्यहिर्बुध्न्योग्निः नोस्मान्रिषे हिंसकाय माधात् माददातु अस्य ऋतायोर्यज्ञकामस्य यजमानस्य यज्ञोमा च स्रिधत् नक्षीयेत यद्वा अस्याहिर्बुध्न्यस्य इममहिर्बुध्न्यमुद्दिश्य ऋतयोर्यज्ञकामस्य योयज्ञः सनक्षीयेतेत्यर्थः ॥ १७ ॥

7.34.18
उ॒त न᳚ ए॒षु नृषु॒ श्रवो᳚ धु॒ः प्र रा॒ये य᳚न्तु॒ शर्ध᳚न्तो अ॒र्यः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । ए॒षु । नृषु᳚ । श्रवः᳚ । धुः॒ । प्र । रा॒ये । य॒न्तु॒ । शर्ध᳚न्तः । अ॒र्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं द्वृचोदैवोमारुतोवा उतापिच नोस्मदीयेषु एषु नृषु पुरुषेषु श्रवोन्नं धुर्देवामरुतोवा धारयन्तु । राये धनार्थं रार्धन्तः उत्सहमानाः प्रीयमाणावा अर्यः अरयः प्रयन्तु प्रगच्छन्तु म्रियन्तामित्यर्थः ॥ १८ ॥

7.34.19
तप᳚न्ति॒ शत्रुं॒ स्व१॒᳚र्ण भूमा᳚ म॒हासे᳚नासो॒ अमे᳚भिरेषाम् ॥
▶ पदपाठः (Word-by-word)
तप᳚न्ति । शत्रु᳚म् । स्वः᳚ । न । भूम᳚ । म॒हा॑से᳚नासः । अमे᳚भिः । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महासेनासोमहासेनाराजानः एषां मरुतां देवानां वा अमेभिर्बलैः भूमा भुवनानि स्वर्ण आदित्यइव शुक्रं स्वकीयं तपन्ति बाधन्ते महान्तोपि राजानः अमैर्बलैः शत्रून् बाधन्ते तानि बलानि देवानामेवेत्यर्थः ॥ १९ ॥

7.34.20
आ यन्न॒ः पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा᳚ सुपा॒णिर्दधा᳚तु वी॒रान् ॥
▶ पदपाठः (Word-by-word)
आ । यत् । नः॒ । पत्नीः᳚ । गम᳚न्ति । अच्छ᳚ । त्वष्टा᳚ । सु॒॑पा॒णिः । दधा᳚तु । वी॒रान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यां देवपत्न्यः त्वष्टाच देवता यद्यदा पत्नीर्देवानां पत्न्योनोस्मानच्छाभ्यागमंति आगच्छन्ति तदा सुपाणिः शोभनहस्तः त्वष्टा देवोवीरान् पुत्रान् दधातु अस्मभ्यं ददातु ॥ २० ॥

7.34.21
प्रति᳚ न॒ः स्तोमं॒ त्वष्टा᳚ जुषेत॒ स्याद॒स्मे अ॒रम᳚तिर्वसू॒युः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । नः॒ । स्तोम᳚म् । त्वष्टा᳚ । जु॒षे॒त॒ । स्यात् । अ॒स्मे इति᳚ । अ॒रम᳚तिः । व॒सु॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं स्तोमं स्तोत्रं त्वष्टा प्रतिजुषेत प्रतिसेवेत । अपि च अरमतिः पर्याप्तबुद्धिः सर्वविषयव्यापिबुद्धिर्वा त्वष्टा अस्मे अस्मदर्थं वसूयुः धनकामः स्यात् भूयात् ॥ २१ ॥

7.34.22
ता नो᳚ रासन्राति॒षाचो॒ वसू॒न्या रोद᳚सी वरुणा॒नी शृ᳚णोतु ।
वरू᳚त्रीभिः सुशर॒णो नो᳚ अस्तु॒ त्वष्टा᳚ सु॒दत्रो॒ वि द᳚धातु॒ रायः᳚ ॥
▶ पदपाठः (Word-by-word)
ता । नः॒ । रा॒स॒न् । रा॒ति॒॑साचः᳚ । वसू᳚नि । आ । रोद᳚सी॒ इति᳚ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ ।
वरू᳚त्रीभिः । सु॒॑श॒र॒णः । नः॒ । अ॒स्तु॒ । त्वष्टा᳚ । सु॒॑दत्रः᳚ । वि । द॒धा॒तु॒ । रायः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता यान्यस्माकमभीष्टानि तानि वसूनि धनानि रातिषाचो दानसमवेता देवपत्न्योनोस्मभ्यं रासन् प्रयच्छन्तु । अपि च वरुणानी वरुणस्य पत्नी आशृणोत्वस्मदीयं स्तोत्रमभिशृणोतु । रोदसी द्यावापृथिव्यौ चाभिशृणुताम् । सुदत्रः कल्याणदानः त्वष्टाच वरूत्रीभिरु- पद्रवानांवारयित्रीभिर्देवपत्नीभिः सह नोस्मभ्यं सुशरणः सुशरणप्रदोस्तु रायोधनानिच विदधातु ॥ २२ ॥

7.34.23
तन्नो॒ राय॒ः पर्व᳚ता॒स्तन्न॒ आप॒स्तद्रा᳚ति॒षाच॒ ओष᳚धीरु॒त द्यौः ।
वन॒स्पति᳚भिः पृथि॒वी स॒जोषा᳚ उ॒भे रोद᳚सी॒ परि᳚ पासतो नः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । रायः᳚ । पर्व᳚ताः । तत् । नः॒ । आपः᳚ । तत् । रा॒ति॒॑साचः᳚ । ओष᳚धीः । उ॒त । द्यौः ।
वन॒स्पति᳚॑भिः । पृ॒थि॒वी । स॒॑जोषाः᳚ । उ॒भे इति᳚ । रोद᳚सी॒ इति᳚ । परि᳚ । पा॒स॒तः॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं तदित्यव्ययः ता रायोधनानि पर्वताः परिपान्तु नोस्माकं तत् ता रायः आपश्च परिपान्तु तद्रातिषाचोदानसहितादेवपत्न्यश्च परिपान्तु ओषधीरोषधयश्च तत्परिपान्तु उतापिच द्यौस्तत्परिपातु वनस्पतिभिः सजोषाः सहिता पृथिव्यन्तरिक्षं च तत्परिपातु आपः पृथिवीत्यन्तरिक्षनामसु पाठात् नोस्माकं तदुभेरोदसी द्यावापृथिव्यावपि परिपासतः परिरक्षतां ॥ २३ ॥

7.34.24 समानपद
अनु॒ तदु॒र्वी रोद᳚सी जिहाता॒मनु᳚ द्यु॒क्षो वरु᳚ण॒ इन्द्र᳚सखा ।
अनु॒ विश्वे᳚ म॒रुतो॒ ये स॒हासो᳚ रा॒यः स्या᳚म ध॒रुणं᳚ धि॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । तत् । उ॒र्वी इति᳚ । रोद᳚सी॒ इति᳚ । जि॒हा॒ता॒म् । अनु᳚ । द्यु॒क्षः । वरु᳚णः । इन्द्र᳚॑सखा ।
अनु᳚ । विश्वे᳚ । म॒रुतः᳚ । ये । स॒हासः᳚ । रा॒यः । स्या॒म॒ । ध॒रुण᳚म् । धि॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तद्वक्ष्यमाणमुर्वी विस्तीर्णे रोदसी द्यावापृथिव्यावनुजिहातां अनुगच्छताम् अनुमन्येतामित्यर्थः द्युक्षोदीप्तर्निवासभूतः इन्द्रसखा इन्द्रसखः इन्द्रः सखा यस्येति बहुव्रीहिः वरुणश्च तदनुजिहातां द्विवचनान्तस्यैकवचनान्ततया विपरिणामः । येसहासः शत्रूणामभिभवितारस्ते मरुतोपि तदनुजिहतां अत्र बहुवचनान्ततया विपरिणामः । यदनुमन्तव्यं तदाह-धियध्यै धरणीयं धारयितुं रायोधनस्य धरुणं धाम स्थानं वयं स्याम भवेमेति ॥ २४ ॥

7.34.25
तन्न॒ इन्द्रो॒ वरु᳚णो मि॒त्रो अ॒ग्निराप॒ ओष᳚धीर्व॒निनो᳚ जुषन्त ।
शर्म᳚न्त्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । इन्द्रः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । आपः᳚ । ओष᳚धीः । व॒निनः᳚ । जु॒ष॒न्त॒ ।
शर्म᳚न् । स्या॒म॒ । म॒रुता᳚म् । उ॒प॑स्थे᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्मभ्यं तदिदं स्तोत्रमिन्द्रोवरुणश्च मित्रश्चाग्निश्चापश्चौषधीरोषधयश्च वनिनोवृक्षाश्च जुषन्त जुषन्तां सेवन्ताम् । वयं च मरुतामुपस्थे उपस्थाने वर्तमानाः शर्मन् शर्मणि सुखे गृहे वा स्याम भवेम सिद्धमन्यत् ॥ २५ ॥

शंनैन्द्राग्नीति पंचदशर्चं द्वितीयं सूक्तं अत्रेयमनुक्रमणिका-शंनः पंचोना शान्तिरिति । वसिष्ठऋषिः त्रिष्टुपछन्दः वैश्वदेवंहेत्युक्तत्वा- दिदमपि वैश्वदेवम् । महानाम्नीव्रते एतत्सूक्तंजप्यं तथाचसूत्रितं-भद्रंकर्णेभिःशृणुयामदेवाः शंनइन्द्राग्नीभवतामवोभिरिति एवमेतासु ।