श्रवणम्

7.34.24 समानपद
अनु॒ तदु॒र्वी रोद᳚सी जिहाता॒मनु᳚ द्यु॒क्षो वरु᳚ण॒ इन्द्र᳚सखा ।
अनु॒ विश्वे᳚ म॒रुतो॒ ये स॒हासो᳚ रा॒यः स्या᳚म ध॒रुणं᳚ धि॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । तत् । उ॒र्वी इति᳚ । रोद᳚सी॒ इति᳚ । जि॒हा॒ता॒म् । अनु᳚ । द्यु॒क्षः । वरु᳚णः । इन्द्र᳚॑सखा ।
अनु᳚ । विश्वे᳚ । म॒रुतः᳚ । ये । स॒हासः᳚ । रा॒यः । स्या॒म॒ । ध॒रुण᳚म् । धि॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तद्वक्ष्यमाणमुर्वी विस्तीर्णे रोदसी द्यावापृथिव्यावनुजिहातां अनुगच्छताम् अनुमन्येतामित्यर्थः द्युक्षोदीप्तर्निवासभूतः इन्द्रसखा इन्द्रसखः इन्द्रः सखा यस्येति बहुव्रीहिः वरुणश्च तदनुजिहातां द्विवचनान्तस्यैकवचनान्ततया विपरिणामः । येसहासः शत्रूणामभिभवितारस्ते मरुतोपि तदनुजिहतां अत्र बहुवचनान्ततया विपरिणामः । यदनुमन्तव्यं तदाह-धियध्यै धरणीयं धारयितुं रायोधनस्य धरुणं धाम स्थानं वयं स्याम भवेमेति ॥ २४ ॥