सप्तमं मण्डलम् - सूक्तम् 12

3 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 7.12 - सम्पूर्णम्

1 / 3
ऋक्: 7.12.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
7.12.1
अग᳚न्म म॒हा नम᳚सा॒ यवि᳚ष्ठं॒ यो दी॒दाय॒ समि᳚द्ध॒ः स्वे दु᳚रो॒णे ।
चि॒त्रभा᳚नुं॒ रोद᳚सी अ॒न्तरु॒र्वी स्वा᳚हुतं वि॒श्वतः᳚ प्र॒त्यञ्च᳚म् ॥
▶ पदपाठः (Word-by-word)
अग᳚न्म । म॒हा । नम᳚सा । यवि᳚ष्ठम् । यः । दी॒दाय᳚ । सम्॑इ᳚द्धः । स्वे । दु॒रो॒णे ।
चि॒त्र॑भा᳚नुम् । रोद᳚सी॒ इति᳚ । अ॒न्तः । उ॒र्वी इति᳚ । सु॑आ᳚हुतम् । वि॒श्वतः᳚ । प्र॒त्यञ्च᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः स्वेदुरोणे स्वेस्थाने आहवनीये समिद्धः काष्ठैः समिद्धःसन् दीदाय दीप्यते तमिमं यविष्ठं युवतमं उर्वी विस्तीर्णयोः रोदसी रोदस्योः द्यावापृथिव्योरन्तर्मध्येन्तरिक्षे चित्रभानुं चित्रज्वालं स्वाहुतं सुष्ठु आहुतिभिर्हुतं सन्तं विश्वतः सर्वतः प्रत्यञ्चं प्रतिगच्छन्तमग्निं महा महता नमस्कारेण अगन्म वयमुपगच्छाम ॥ १ ॥

7.12.2 समानपद
स म॒ह्ना विश्वा᳚ दुरि॒तानि᳚ सा॒ह्वान॒ग्निः ष्ट᳚वे॒ दम॒ आ जा॒तवे᳚दाः ।
स नो᳚ रक्षिषद्दुरि॒ताद᳚व॒द्याद॒स्मान्गृ᳚ण॒त उ॒त नो᳚ म॒घोनः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । म॒ह्ना । विश्वा᳚ । दुः॒॑इ॒तानि᳚ । सा॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे᳚ । आ । जा॒त॑वे᳚दाः ।
सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒॑इ॒तात् । अ॒व॒द्यात् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्मह्ना महत्त्वेन विश्वा विश्वानि दुरितानि सह्वान् अभिभवन् जातवेदाः जातधनो जातप्रज्ञोवा दमे यज्ञगृहे स्तवे अस्माभिः स्तूयते सोग्निरस्मान् दुरितात् पापात् अवद्यात् निंदिताच्च कर्मणोरक्षिषत् रक्षत् । अस्मान् गृणतः स्तुवतोपि रक्षिषत् । उतापिच सोग्निः नो मघोनो हविष्मतोरक्षिषत् ॥ २ ॥

7.12.3
त्वं वरु᳚ण उ॒त मि॒त्रो अ᳚ग्ने॒ त्वां व᳚र्धन्ति म॒तिभि॒र्वसि᳚ष्ठाः ।
त्वे वसु᳚ सुषण॒नानि᳚ सन्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
त्वम् । वरु᳚णः । उ॒त । मि॒त्रः । अ॒ग्ने॒ । त्वाम् । व॒र्ध॒न्ति॒ । म॒ति॑भिः᳚ । वसि᳚ष्ठाः ।
त्वे इति᳚ । वसु᳚ । सु॒॑स॒ण॒नानि᳚ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं वरुणोसि उतापि च त्वं मित्रोसि जगतः प्रमीतेस्त्रातासि त्वां वसिष्ठाः मतिभिः स्तुतिभिः वर्धन्ति वर्धयन्ति त्वे त्वयि विद्य- मानानि वसु वसूनि सुसननानि सुसंभजनानि संत्विति स्पष्टमन्यत् ॥ ३ ॥

प्राग्नयइति तृचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकं तथाचानुक्रान्तंप्राग्नयेवैश्वानरीयमिति । विनियोगोलैंगिकः ।