श्रवणम्

7.6.1
प्र स॒म्राजो॒ असु᳚रस्य॒ प्रश᳚स्तिं पुं॒सः कृ᳚ष्टी॒नाम᳚नु॒माद्य᳚स्य ।
इन्द्र᳚स्येव॒ प्र त॒वस᳚स्कृ॒तानि॒ वन्दे᳚ दा॒रुं वन्द᳚मानो विवक्मि ॥
▶ पदपाठः (Word-by-word)
प्र । स॒म्॑राजः᳚ । असु᳚रस्य । प्र॑श᳚स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒॑माद्य᳚स्य ।
इन्द्र᳚स्य॑इव । प्र । त॒वसः᳚ । कृ॒तानि᳚ । वन्दे᳚ । दा॒रुम् । वन्द᳚मानः । वि॒व॒क्मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दारुं पुरां भेत्तारं वन्दे वन्दमानःसन् सम्राजः सर्वस्य भुवनस्येशरस्य असुरस्य बलवतः पुंसो वीरस्य पौंस्यमिति वीर्यमुच्यते तथा च यास्कः-पुमान् पुरुमना भवति पुंसतेर्वेति । कृष्टीनां जनानां अनुमाद्यस्य स्तुत्यस्य तवसो बलवतइन्द्रस्येव तस्य वैश्वानरस्य प्रशस्तिं स्तुतिं कृतानि कर्माणि च प्रविवक्मि प्रब्रवीमि ॥ १ ॥