उ॒पाया᳚तं दा॒शुषे॒ मर्त्या᳚य॒ रथे᳚न वा॒मम᳚श्विना॒ वह᳚न्ता ।
यु॒यु॒तम॒स्मदनि᳚रा॒ममी᳚वां॒ दिवा॒ नक्तं᳚ माध्वी॒ त्रासी᳚थां नः ॥
यु॒यु॒तम॒स्मदनि᳚रा॒ममी᳚वां॒ दिवा॒ नक्तं᳚ माध्वी॒ त्रासी᳚थां नः ॥
पदपाठः (Word-by-word)
उ॒प॒॑आया᳚तम् । दा॒शुषे᳚ । मर्त्या᳚य । रथे᳚न । वा॒मम् । अ॒श्वि॒ना॒ । वह᳚न्ता ।
यु॒यु॒तम् । अ॒स्मत् । अनि᳚राम् । अमी᳚वाम् । दिवा᳚ । नक्त᳚म् । मा॒ध्वी॒ इति᳚ । त्रासी᳚थाम् । नः॒ ॥
यु॒यु॒तम् । अ॒स्मत् । अनि᳚राम् । अमी᳚वाम् । दिवा᳚ । नक्त᳚म् । मा॒ध्वी॒ इति᳚ । त्रासी᳚थाम् । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ युवां उपायातमुपागच्छतमस्मदाह्वानं प्रति । किमर्थं दाशुषे हविषां दात्रे मर्त्याय यजमानाय तदर्धं रथेन वामं वननीयं धनं वहन्ता वहन्तौ अस्मदस्मत्तोयुयुतं पृथक्कुरुतम् । किं अनिरां इरान्नं तद्रहितं दारिन्द्यमित्यर्थः अमीवां रोगञ्च हे माध्वी मधुमन्तौ युवां नोस्मान् दिवानक्तं सर्वदा त्रासीथां रक्षतम् ॥ २ ॥