श्रवणम्

7.25.1 समानपद
आ ते᳚ म॒ह इ᳚न्द्रो॒त्यु᳚ग्र॒ सम᳚न्यवो॒ यत्स॒मर᳚न्त॒ सेना᳚ः ।
पता᳚ति दि॒द्युन्नर्य᳚स्य बा॒ह्वोर्मा ते॒ मनो᳚ विष्व॒द्र्य१॒᳚ग्वि चा᳚रीत् ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । स॑म᳚न्यवः । यत् । स॒म्॑अर᳚न्त । सेनाः᳚ ।
पता᳚ति । दि॒द्युत् । नर्य᳚स्य । बा॒ह्वोः । मा । ते॒ । मनः᳚ । वि॒ष्व॒द्र्य᳚क् । वि । चा॒री॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उग्र उद्गूर्ण ओजस्विन्निन्द्र यद्यदा समन्यवः समोमन्युरभिमानोयासां ताः समन्यवः सेनाः समरन्त युध्यन्ते युद्धार्थं संगच्छन्ते वा तदा नर्यस्य नरहितस्य महोमहतः ते तव बाह्वोः स्थितं विद्युदायुधं विद्युत् हेतिरिति वज्रनामसु पाठात् ऊती ऊत्यै अस्मद्रक्षायै आपताति आ पततु । ते तव विष्वड्मक् विष्वग्गन्तृमनः माविचारीत् अस्मास्वेव स्थिरं भवतु ॥ १ ॥