श्रवणम्

7.25.5
कुत्सा᳚ ए॒ते हर्य᳚श्वाय शू॒षमिन्द्रे॒ सहो᳚ दे॒वजू᳚तमिया॒नाः ।
स॒त्रा कृ᳚धि सु॒हना᳚ शूर वृ॒त्रा व॒यं तरु᳚त्राः सनुयाम॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
कुत्साः᳚ । ए॒ते । हर्यि᳚॑अश्वाय । शू॒षम् । इन्द्रे᳚ । सहः᳚ । दे॒व॑जू᳚तम् । इ॒या॒नाः ।
स॒त्रा । कृ॒धि॒ । सु॒॑हना᳚ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु᳚त्राः । स॒नु॒या॒म॒ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते वयं वसिष्ठाः हर्यश्वाय हरिनामकाश्वायेन्द्राय शूषं सुखकरं स्तोत्रं कुत्साः कुर्वाणाः करोतेः कुत्सशब्दनिष्पत्तिः इन्द्रे देवजूतं देवैः प्रेरितं सहोबलमियानाः याचमानाः तरुत्राः दुर्गाणि तीर्णाः सन्तो वाजं बलं सनुयाम लभेमहि । अपि च हे शूर वृत्रा वृत्राणि शत्रून् सुहना हन्तुं सुशकानि सत्रा सर्वदा कृधि कुरु ॥ ५ ॥